________________
परि. २ सू. २६ ]
स्याद्वादरत्नाकर सहितः
तैकान्तस्य । न ज्ञानादयो गुणः सर्वथात्मनः पृथग्भूताः शक्याः प्रतिपादयितुम् । यतोऽशेष विशेषगुण निवृत्तिर्मुक्तिर्व्यवतिष्ठेत । ननु धर्माधर्मयोस्तावन्निवृत्तिरात्यन्तिकी मुक्तौ प्रतिपत्तव्या । अन्यथा मुक्तेरनुपपत्तेः । धर्माधर्मनिवृत्तौ च तत्फलबुद्धयादिविनिवृत्तिरवश्यंभाविनी । निमित्तापाये नैमित्तिकस्यानुपपत्तेः । मुक्तस्यात्मनोऽन्तःकरणसंयोगा- ५ भावेन च तत्कार्यस्य बुद्धयादेरनुत्पत्तिरित्यशेषगुणानिवृत्तिर्मुक्तौ सिध्यत्येवेति केचित् । तेऽपि धर्माधर्मनिबन्धनानां बुद्धधादीनामात्मान्तःकरणसंयोगजानां च मुक्तौ निवृत्तिं ब्रुवाणा न निवार्यन्ते । कर्मक्षयहेतुकयोस्तु प्रशमसुखानन्तज्ञानयोर्निवृत्तिमाचक्षाणास्ते न स्वस्थाः । प्रमाणविरोधात् । तथा ह्यात्मा मुक्तो ज्ञानादिमान् सत्त्वान्यथानुपपत्तेः । १० न खल्वात्मनः सर्वथापि ज्ञानाद्यभावे किंचिदपि स्वरूपं स्यात् । तल्लक्षणत्वाचस्य । ततः कथञ्चिद्वयादिविशेषगुणानां निवृतिर्मुक्तौ व्यवतिष्ठते । न चैवं सिद्धान्तविरोधः । "औपशमिकादिभव्यत्वाभावाचान्यत्र केवलसम्यक्त्वज्ञानदर्शन सिद्धत्वेभ्यः" इति सूत्रसद्भावात् । अत्र द्योपशमिकक्षायोपशमिकौदयिकभावानां दर्शनज्ञानगत्यादीनां पारि- १५ णामिकभावस्य च भव्यत्वस्याभावान्मोक्ष इत्यभिसम्बन्धान्मुक्तौ विशेवगुणनिवृत्तिरिष्टा । " अन्यंत्र केवलसम्यक्त्वज्ञानदर्शन सिद्धत्वेभ्य" इति वचनादनन्तज्ञानदर्शनसम्यक्त्वानामनिवृत्तिश्चेति युक्तमुक्तं कथविद्धयादिविशेषगुणानां निवृत्तिर्मुक्तौ व्यवतिष्ठत इति । ननु कथमेवमनन्तसुखसद्भावो मुक्तौ सिद्धयेदिति चेत्, उच्यते । सिद्धत्व- २० वचनात् । सकलदुःखनिवृत्तिरात्यन्तिकी हि भावतः सिद्धत्वम् । सैव चानन्तप्रशमसुखमिति संसारिक सुखनिवृत्तिरपि मुक्तौ न विरुध्यत इति । ततश्च ।
बुद्धधाद्युच्छेदरूपाप मुक्तिर्योगोपकल्पिता ॥
न्यायबाह्येति नो मान्या स्याद्वादसुभगात्मनाम् ॥ ३४९ ॥
२५
१ बुद्धवादरुत्पत्ति' इति प. भ. पुस्तकयोः पाठः । २ तत्त्वार्थ. १०१४. ३ त श्लो. वा. १०१४.
"Aho Shrut Gyanam"
४०१