SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः. ३८३ तर्हि तस्य प्रतिषेधो माता मे वन्ध्येति नीतिमनुसरति । अथ परासद्धोऽयमुपादीयते । तदापि परस्यासौ यदि मानेन सिद्धः । तदा तवापि सिद्ध एवेति नोपपन्नस्तत्प्रतिषेधः । अथ नायं स्वस्य परस्य वा मानेन सिद्धः । तदाऽसिद्ध एवेति हेतोराश्रयासिद्धता दुष्प्रतिविधेया । तन्न धर्मादिविशदसंवेदनं नास्तीति साध्यर्भिनिर्देशः सूपपादः । नापि ५ धर्मादयो विशदसंवेदनवेद्या न भवन्तीति । अत्राप्यनुपहतस्य हेतोरभावात् । स ह्यमूर्तस्वरूपोऽतीन्द्रियत्वस्वभावो वा भवेत् । न तावदाद्यः। तस्य सविसंवादत्वात् । अमूर्तम्यापि सामान्यादेविंशदसंवेदनवेद्यत्वेनाभ्युपेतत्वात् । अतीन्द्रियत्वस्वभावोऽत्र हेतुः । तथा हि न धर्मादयो विशदसंवेदनवेद्या अतीन्द्रियत्वाद्यत्तु नैवं न तदेवं यथा स्तम्भस्तथा १० च न धर्मादयस्तस्मान्न विशदसंवेदनवेद्या इति । एतदपि प्रलापमात्रम् । उपाधिविशेषाविनाभावमूलत्वेन हेतोः साध्यानवबोधनात् । तथा ह्यतीन्द्रियत्वे सत्यपि य एव भावनाविशेषातिशयविषयो भवति भावः स एव विशदसंवेदनवेद्यः । यथा विषमशरशरविसरनिरन्तरप्रहारहारितसमस्तसातवार्तस्य पुंसः प्रेयसीमयीं भुवनत्रयीं भावयतस्तद्वदना- १५ रविन्दम् । भावनाविशेषातिशयविषयीभूतास्तु पुरुषस्य धर्मादयस्तस्मादतीन्द्रियत्वेऽपि ते तस्य विशदसंवेदनवेद्या भवन्ति । अथ भावनाविशेषातिशयभाविप्रेयसीवदनारविन्ददर्शनं भ्रान्तं धर्मादिदर्शनं प्रत्युदाहृतित्वाय नालम् । अन्यथा तत्सामान्येन धर्मादिदर्शनं भ्रान्तं स्यादिति । प्रलापमात्रमेतत् । विपदप्रतिभासमात्रतया तस्योदाहृतित्वोप- २० पत्तेः । यदि तु साध्यधर्म्युदाहृत्योः सर्वथा साम्यमभिप्रैति देवानांप्रियः । तदा सर्वत्रोदाहृतेरभाव एव स्यात् । महीधरमहानसयोरपि सर्वथा साम्याभावात् । तत्र भावनाविशेषभावित्वेऽपि बाधकमानोपनिपातेन प्रियतमावदनारविन्ददर्शनं भ्रान्तम् । धादिदर्शनं तु बाधादिरहितत्वेनाभ्रान्त १' इति न तस्यात्रान्तम्' इति प. भ. पुस्तकयोरधिकम् । २ प्रत्युदाहृतित्वं पेशलम्' इति प. भ. पुस्तकयोः पाठः। "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy