________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २३ भविष्यति। विशदप्रतिभासत्वं तूभयत्रापि समानमिति भवत्येतावतात्रास्योदाहृतित्वम् । तथाऽतीन्द्रियत्वादिति हेतुरपि इन्द्रियासम्बद्धत्वमिन्द्रियसम्भवसंवेदनाविषयत्वं वा स्यात् । तत्रेन्द्रियासम्बद्धत्वं विसंवादि।
पदार्थानां नयनेन्द्रियासम्बद्धत्वेऽपि तदुत्पाद्यविशदसंवेदनवेद्यत्वात् । ५ नयनेन्द्रियासम्बद्धत्वं तु तेषां नयनस्याप्राप्यदर्शित्वेन समर्थितत्वात् ।
इन्द्रियसम्भववेदनाविषयत्वं तु साध्यसमम् । भवतां मते इन्द्रियसम्भवस्यैव विशदसंवेदनस्य भावादिति । य एवार्थो विशदसंवेदनवेद्यो न भवतीति स एवातीन्द्रियत्वादिति । संशयितसाध्यशून्यपदार्थव्यावृत्तिरप्ययं हेतुः।
अतीन्द्रिया अपि विशददर्शनवेद्या भविष्यन्ति विरोधाभावात् । तथा १० यतीन्द्रियत्वविशददर्शनवेद्यत्वयोर्विरोधः सहानवस्थारूपो वा शीत
वयोरिव । परस्परस्थितिपरिहारस्वरूपो वा भावाभावयोरिव । न प्रथमस्तयोः सम्भवति । स हि समवहितसमस्तसाधनस्य भवतोऽन्यभावेsभावाद्विशदवेदनानुपलम्भाभ्यामवसीयते । नन्वेवभिहापि भविष्यति ।
नैवम् । न हि धर्मादीनां विशददर्शनवेद्यत्वस्य पूर्वं भवतोऽतीन्द्रियत्व१५ सन्निधानानिवृत्तिर्विप्रैः समुपलभ्यते । यतस्तेन तस्य विरोधः स्यात् ।
उपलम्भे वा निष्फलं तन्निरासेनात्मानमायासयन्ति श्रोत्रियाः । द्वितीयोऽपि विरोधो नात्र सम्भवति । यतो नातीन्द्रियत्वं विशददर्शनवेद्यत्वव्युदासेन व्यवस्थितम् । अपि विन्द्रियविषयत्वव्युदासेनेति धर्मा
दयो विशदसंवेदनवेद्या न भवन्तीत्येषोऽपि साध्यम्मिनिर्देशोऽनुपपन्न २० एव । योऽपि विवादाध्यासितः पुरुषो धादिदर्शी न भवतीति ।
तत्राप्युपदेशित्वं पुरुषत्वं वा हेतुः स्यात् । यद्यपदेशित्वम् । तदापि मानविरुद्धार्थोपदेशित्वं तद्विपरीतार्थोपदेशित्वमुपदेशित्वमात्रं वा स्यात् । प्रथमभिदायां हेतोरसिद्धिः । तत्रभवतस्तथाभूतार्थोपदेशित्वासम्भवात् । उत्पादव्ययधैौव्यस्वभाववस्तुवादी हि तत्रभवान्न तु तथाविधवस्तुनि
--
-
१' चेदथ' इति प. भ. पुस्तकयोः पाठः । २ — संशयित्व ' इति भ. पुस्तके पाठः।
"Aho Shrut Gyanam"