________________
३८२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सु. २३ व विशदवेदनं धर्मादिविषयविशदवेदनबाधनायोत्सहते। नाप्यनुमानम् । तत्र हि धर्मादिविशदसंवेदनं नास्तीति साध्यधर्मिनिर्देशः स्यात् । धर्मादयो विशदसंवेदनवेद्या न भवन्तीति वा । यद्वा विवादाध्यासितः पुरुषो धर्मादिदर्शी न भवतीति । यदि वा विवादाध्यासिता धर्मादयः सिद्धान्तेनैव वेद्या इति । आद्यविधायां साधनमनुपलम्भो विरुद्धविधिर्वा भवेत् । यद्यनुपलम्भः सोऽपि धादिदर्शनस्य, तद्धतोः, तद्व्यापिनः, तत्साध्यस्य वा स्यात् । यदि धर्मादिदर्शनस्य, तदाप्यसौ स्वसम्बन्धी सर्वसम्बन्धी वा । यदि म्वसम्बन्धी । नासौ तदभावहेतुः ।
विसंवादित्वात् । नापि सर्वसम्बन्धी । म्वरूपासिद्धत्वात् । न १० हि सर्वात्मनामप्रतिपत्तौ तत्सम्बन्धी धर्मादिदर्शनानुपलम्भो
विभावयितुं पायते । नापि धादिदर्शनहेतोरनुपलम्भोऽस्ति । तदावृतिप्रध्वंसस्य तद्धेतोरनुमानबलात्प्रसाधितत्वात् । नापि तव्यापिनः । धर्मादिदर्शनव्यापिनः संविद्रूपतादेस्तत्र सद्भावात् । तत्साध्यानुप
लम्भोऽप्यसिद्धः । धांद्यशेषार्थप्रतिपादनपरस्य राद्धान्तस्य तत्साध्य१५ स्योपलभ्यमानत्वात् । विसंवाददुस्थोऽप्येषः । घूमादिफलानुपलम्भेऽपि
विभावसुप्रभृतिहेतोर्मुर्मुराद्यवस्थासु सद्भावविभीवनात् । न ह्यवश्यं साधनानि साध्यवन्ति भवन्ति । तन्नानुपलम्भः साधनतां बिभर्ति । नापि विरुद्धविधिः । यतः सोऽपि प्रतिनियतदेशादौ तस्याभावं साधये
दशेषदेशादौ वा । आद्यभेदे सामस्त्येन धर्मादिदर्शनस्य नाभावः २० सिद्धयेत् । यत्रैव यदैव हि तद्विरुद्धस्य विधानं तत्रैव तदैव तदभावः
साधयितुं पार्यते नान्यत्रान्यदा। अतिव्याप्तेः । द्वितीयभेदोऽप्यसम्भाव्यः। असर्वदर्शिनः सर्वत्र सर्वदा तद्विरुद्धविधेरसम्भवादिति ने विरुद्धविधिरपि साधनत्वमश्नुते । तथा हेतुद्वयेऽप्यऽस्मिन् धर्मादिविशदसंवेदनस्वरूपः साध्यधर्मी स्वसिद्धः परसिद्धो वाभिधीयते। यदि स्वसिद्धः।
१ विभावात् ' इति भ. प. पुस्तकयोः पाठः । २ 'न' इति नास्ति प. भ. पुस्तकयोः ।
"Aho Shrut Gyanam"