________________
परि. २ सू. २३] स्याद्वादरत्नाकरसहितः वसीयमानत्वात् । नैतत्साधु । अभावस्य वस्त्वंशतया विशदसंवेदनरूपमानावसेयतयापि समर्थितत्वात् । नन्वनुमानान्तरबाधितार्थसिद्धयर्थमुपस्थितत्वाद्वह्निशैत्यानुमानवहाधितविषयमनुमानमिदम् । अमनोहरमेतत् । तथा ह्यत्र विशदवेदनमनुमान शाब्दमुपमानमर्थापत्तिरभावो वा धर्मादिविशदवेदनस्य बाधायै प्रभवेत् । यदि विशदवेदनम् । तदापी- ५ न्द्रियप्रभवमनिन्द्रियप्रभवं वा तद्भवेत् । यदीन्द्रियप्रभवम् । तदापि त्वत्सम्बन्धि समस्तपुरुषसम्बन्धि वा तत्स्यात् । यदि त्वत्सम्बन्धि । तदापि नियतदेशदशाविशेषितस्य तस्याभावं साधयेदशेषदेशादिवर्तिनो वा । यदि नियतदेशदशाविशेषितस्य तदा सिद्धसाधनम् । अस्माभिरपि नियतदेशदशाविशेषितस्य तस्याभावसाधनात् । अथाशेषदेशादिवर्तिनः। तदापि १० तदिन्द्रियप्रभववेदनं तेऽशषदेशादौ प्रवर्तते वा न। यदि प्रवर्तेत । तदा भवानेव समस्तदेशादिविशेषवेदी धर्मादिदर्शीति तव शरास्त्वय्यैव निष. तिताः । अथ न प्रवर्तत इति निवर्तमानमिन्द्रियवेदनं त्वत्सम्बन्धिधर्मादिदर्शनस्य बाधनम् । तदप्यसत् । यदि हि तत्तस्य हेतुप्पी वा स्यात्तदा तस्य निवृत्त्या धर्मादिविशदवेदनस्यापि निवृत्तिर्विभाव्येत् । १५ अन्यथा मन्दरामरमन्दिरादीनामा प्रभावः स्यात् । न पुनरिदमिहास्ति। अथ समस्ति समस्तपुरुषसम्बन्धि तत्तद्वाधनम् । तदसिद्धम् । न हि सर्वे पुरुषा धर्मादिविशदवेदनं न विदन्तीत्यत्रासर्वविदः सामर्थ्यमस्ति । तथाभ्युपेत्य धर्मादिविशददर्शनस्यन्द्रियप्रभवसंवेदनविषयतां त्वत्सम्बन्धीत्यादिभेदवृन्दमवादि । यावतेन्द्रियप्रभवसंवेदनस्य धर्मादिविशदवेदनं विषय २० एव न भवति । न हि परपुरुषवर्तिनः संवेदनविशेषा अस्माभिरिन्द्रियोदितवेदनेन वेद्यन्ते । अविषयस्यापि यदि तेनाभावः साध्यते । तर्हि नयनोत्थे
संवेदनेन शब्दाभावः साध्येत । तन्नेन्द्रियप्रभवं वेदनं धर्मादिदर्शनं बाधते। नाप्यनिन्द्रियप्रभव । तस्यासिद्धत्वात् । सिद्धौ वा पर्याप्तं विवादेनेति
भक्ताम् ' इत्याधिक प. भ.
१' प्रवर्तते ' इति भ. पुस्तके पाटः । २ पुस्तकयोः ।
"Aho Shrut Gyanam"