________________
३७८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सु. २३ मभितमेव । वर्तमानकालसम्बन्धित्वातीतादिकालसम्बन्धित्वयोः परस्परं विरोधात् न च वर्तमानकालसम्बन्धित्वेनासत्त्वे स्वकालसम्बन्धेनाप्यतीतादेरसत्त्वम् । अतीतादिकालसम्बन्धित्वेनासत्त्वे
वर्तमानकालसम्बन्धित्वेनाप्यसत्त्वाद्वर्त्तमानस्याप्यसत्त्वप्रसङ्गान्निखिलशू५ न्यतापत्तेः । न चातीतादेः सत्त्वेन ग्रहणे वर्तमानत्वानुषङ्गः ।
सकलनियतसत्त्वरूपतयैव तस्य ग्रहणात् । ननु चातीतादेस्तज्ज्ञानकाले सन्निधानाभावात्कथं प्रतिभासः । सन्निधाने वा वर्तमानवदिति । एतदपि व्याप्तिज्ञानेन कृतोत्तरम् । एतेनेदमिदानीमिह सदित्यस्यां सकलवेदिसंविदि वस्तुसत्तावत्प्रागभावप्रध्वंसौ प्रतिभासेते न वेत्याद्यपि प्रतिक्षिप्तम् । यथैव हीन्द्रियप्रभवप्रत्यक्षे यद्देशविशिष्टं वस्तु नीलरूपं वा भावरूपमभावरूपं वा तद्देशविशिष्टतयैव प्रतिभासते । तथैव समस्तार्थवेदिसंवेदनेऽपि यद्देशकालाकारविशिष्टं वस्तु भावरूपमभावरूपं वा तद्देशकालाकारतयैव तत्प्रतिभासते । ततः कथं युगपदजात
जातमृतव्यपदेशप्रसक्तिः । प्रतिनियतार्थस्वरूपाप्रतीतिर्वा । यतः १५ सर्वज्ञता पुरुषविशेषस्य सुव्यवस्थिता न स्यात् । अतीतादिकालस्य
हि वस्तुस्वभावतया प्रतीतौ युगपदजातजातमृतव्यपदेशप्रसङ्गः प्रतिनियतार्थस्वरूपाप्रतीतिश्च स्यात् । न पुनर्यथाकालं तत्प्रतीताविति । यच्चान्यदवादि सर्वज्ञकालेऽप्यसर्वज्ञैः सर्वज्ञो ज्ञातुमपर्याप्त इत्यादि ।
तदपि न न्याय्यम् । विषयापरिज्ञाने विषयिणोऽप्यपरिज्ञानाभ्युपगमे कथं २० जैमिन्यादेः सकलवेदार्थपरिज्ञाननिश्चयः स्यादसकलवेदार्थविदाम् ।
तदनिश्चये च कथं तद्व्याख्यातार्थाश्रयणादग्निहोत्रादावनुष्ठाने प्रवृत्तिभवेत् । कथं वा व्याकरणादिसकलशास्त्रार्थापरिज्ञाने तदर्थज्ञतानिश्चयो व्यवहारिणाम् । यतो व्यवहारप्रवृत्तिः स्यादिति । अथैवं पर्यन
युज्यते । पूर्वं पश्चाद्वा यदि क्वचित्कदाचिन्निखिलदर्शिनो विज्ञानं २५ विश्रान्तम् । तर्हि तावन्मात्रत्वात्संसारस्य कुतोऽनाद्यनन्तता । अथ
व विश्रान्तम् । तर्हि नानेन युगसहस्रेणापि सकलसंसारसाक्षात्करण
"Aho Shrut Gyanam"