________________
३७७
परि. २ सू. २३] स्याद्वादरत्नाकरसहितः वा सद्भावो न भवेत्तदायं दोषः स्यान्न चैवम् । अनन्तत्वात्तद्यस्य । न च द्वियीयक्षणे गृहीतग्राहित्वेन सर्वज्ञज्ञानस्याप्रामाण्यं वक्तुमुचितम् । गृहीतग्राहितयापि ज्ञानानां प्रामाण्यस्य समर्थितत्वात् । यच्च परसन्तानवर्तिरागादिसाक्षात्करणाद्रागादिमानप्येष प्राप्नुयादिति गदितम् । तदप्यपेशलम् । तथापरिणामो हि रागादिमत्त्वकारणं न तत्संवेदन- ५ मात्रम् । अन्यथा ।
जीर्णा स्वादुरसा सुरेति वचनम्यार्थावबोधाभ्दुवं ___ सीधुस्वादनदोषदुष्टचरितः किं नाम नाभूद्भवान् ॥ तद्रोः सम्प्रति विप्रपुङ्गव गयागङ्गाप्रयागादिषु
प्रायश्चित्तपरिग्रहाय गमनं युक्तं तवेक्षामहे ।। ३४१ ॥ १० इन्द्रियाजन्यत्वात्तदवबोधस्यादोषोऽयमिति चेत् । इतरत्रापि तुल्यम् । न खलु सकलज्ञज्ञानमिन्द्रियप्रभवमभ्युपगम्यते । अपि चाङ्गनालिङ्गनसेवनाद्यभिलाषम्यन्द्रियोद्रेकहेतोराविर्भावाद्रागादिमत्वं प्रसिद्धम् । न चासौ प्रक्षीणमोहे भगवत्यस्तीति कथं रागादिमत्त्वस्याशङ्कापि । यदप्यभ्यधायि सर्वज्ञः समस्तमतीतकालाद्याकलितं वस्तु स्वेन रूपेण १५ प्रतिपद्यत इत्यादि । तदप्यनुपपन्नम् । यतः स्वेनैव रूपेण तत्प्रतिपद्यते सकलज्ञः । न पैवं ज्ञानस्य प्रत्यक्षतानुपपत्तिरवर्त्तमानवस्तुविषयत्वादिति वाच्यम् । परिस्फुटतयार्थस्य ग्राहकत्वात् । परिस्फुटतयार्थस्य प्रतिभासो हि प्रत्यक्षलक्षणम् । स चेदतीतादेरप्यर्थस्यास्ति कथं न तबाहकज्ञानस्य प्रत्यक्षता । यथा चेन्द्रियप्रभवप्रत्यक्षे दूरदेशार्थ- २० ग्रहणेऽपि परिस्फुटप्रतिभासित्वं न विरुद्धयते । तथातीन्द्रियप्रत्यक्षस्य कालावप्रकृष्टार्थग्रहणेऽपि नचैवमतीतादेवर्तमानतापत्तिवर्तमानार्थग्रहणग्राह्यत्वाद्वर्तमानार्थवदित्यभिधातव्यम् । दूरदेशार्थस्याप्यदूरदेशार्थग्रहणग्राह्यत्वाददूरदेशताप्राप्तेरिति । न च वाच्यमतीतादेरसत्त्वात्कथं सर्वज्ञज्ञानेन ग्रहणमिति । यतोऽतीतादेरतीतादिकालसम्बन्धित्वेनातीतादेरपि २५ सत्त्वसम्भवात् । वर्तमानकालसम्बन्धित्वेन त्वतीतादेरसत्त्व
"Aho Shrut Gyanam"