________________
३७६
प्रमाणनयतत्त्वालोकालङ्कारः
परि. २ सु. २३
यञ्चास्पष्टं ह्यनुमानागमज्ञानमित्यादि जल्पितम् । तदसमीक्षिताभिधानम् । न हि सर्वथा कारणसदृशं कार्यमुपजायते । विलक्षणस्याप्यकुरादेः कार्यस्य बीजादेरुत्पत्तिदर्शनात् । किं चात्र सिद्धरससंस्कृतजात्यताम्रखण्डादकम्रवपुषोऽप्युपजायते नो ।। ५ चामीकरं किमपि पिङ्गलरश्मिजालैालप्रवालपटलीचटुलैर्विलासि।३४०॥
सर्वत्र हि सामग्रीभेदात्कार्यभेदः । ततोऽत्राप्यनुमानादिज्ञानेनास्पष्टेनाप्यभ्यासादिसामग्रीसहायेन स्पष्टं यदि विज्ञानमाविर्भाव्येत । तदा को दोषः स्यात् । यदप्यमाणि । तद्वदस्याप्युपप्लवत्वप्रसक्तेरिति । तदसा. म्प्रतम् । भावनाबलात् ज्ञानं वैशद्यमनुभवतीत्येतावन्मात्रेण कामायुपप्लुतज्ञानस्य दृष्टान्ततोपपत्तेः । न चाशेषदृष्टान्तधर्माणां साध्यहमणोपादानं युक्तम्। सकलानुमानोच्छेदप्रसङ्गात् । यच्चाकल्पि, केवलज्ञानस्य सकलार्थग्रहणं सकलत्वं प्रधानभूतकतिपयार्थग्रहणं वेति । तत्राय एव नः पक्षः । यत्तु तत्र विकल्पितं क्रमेण तद्रहणं युगपद्वति । तत्रापि युगपदिति बमः।
सकलावरणप्रलये हि सहस्रमयूखचद्युगपदेव निखिलार्थद्योतकं केवलज्ञान१५ मुजृम्भते । यत्पुनरत्राभ्यधायि । परस्परविरुद्धशीतोष्णाद्यर्थानामेकत्र ज्ञाने
प्रतिभासासम्भवादिति । तदपि न यौक्तिकम् । तत्र हि तेषां सकृदभावादप्रतिभासस्तत्प्रतिभासे तस्यासामर्थ्याद्वा । न तावत्सकृदभावात् । शीतोष्णाद्यर्थानां सकृत्सम्भवात् । तत्प्रतिभासे तस्यासामर्थ्यादित्यप्य
सारम् । परस्परविरुद्धानामन्धकारोद्योतादीनां युगपदुद्योतनसमर्थस्यैक२० स्यापि ज्ञानस्य संवेदनात् । सकृदेकत्र विरुद्धानामर्थानां प्रतिभासा
सम्भवे यत्कृतकं तदनित्यमित्यादिव्याप्तिश्च न स्यात् । साध्यसाधनतया कृतकत्वानित्यत्वयोर्विरुद्धत्वसम्भवात् । नाप्येकत्र ज्ञाने सकृत्तेषां प्रतिभासे तस्य प्रतिनियतार्थग्राहकत्वविरोधः । सकृदन्धकारोद्योतादि
विरुद्धार्थप्राहिणोऽपि ज्ञानस्य प्रतिनियतार्थग्राहकत्वप्रतीतेः । यत्पुनरु२५ क्तमेकक्षण एवं समस्तार्थग्रहणादकिञ्चिज्ज्ञोऽसौ द्वितीयक्षणे प्रसज्ये
तेति । तदप्यसम्बद्धम् । यदि हि द्वितीयक्षणे पदार्थानां तज्ज्ञानस्य
"Aho Shrut Gyanam"