________________
परि. २ सु. २३
स्याद्वादरत्नाकरसहितः
नात् । यदप्युक्तम् । येऽपि सातिशया दृष्टा इत्यादि । अत्रापि यथाभूतानामिदानीमत्र च प्रज्ञामेधादिभिः स्तोकस्तोकान्तरत्वेनैवातिशयो दृष्टो न त्वतीन्द्रियदर्शनात्तथाभूतानामेव देशान्तरे कालान्तरे च तथाभूतोऽतिशयः कल्पयितुं च युक्तो नान्यथाभूतानाम् । यथास्मत्सदृशानां दशहस्तादूर्द्धमुत्प्लुत्य गच्छतामनुपलम्भादस्मादृशानामेव दशहस्तादूर्द्ध- ५ मुत्प्लुत्य गमनं नास्तीति ज्ञायते नान्यथाभूतानां गृध्रभेरुण्डताय॑सावकप्रकाराणाम् । तदेतेन लङ्घनदृष्टान्तः स्वमतविघातीत्युक्तं भवति । नन्वस्मद्विलक्षणेषु गृध्रादिषु हशहस्तादुर्द्धमुत्प्लवनसामर्थ्यस्य दर्शनात्तप्रतिवेधो न युक्त इति युक्तम् । नैवमतीन्द्रियज्ञानं कदाचिदस्मद्विलक्षणेषु दृष्टम् । अस्मद्विलक्षणानां पुरुषाणामेवाभावात् । तस्मादस्मादृशेषु १० दृष्टोऽतिशयो युक्तः सर्वत्र कल्पयितुमदृष्टश्च निषेद्भुमिति चेत् । अहो श्रोत्रियाः, अम्मद्विलक्षणा न सन्ति पुरुषा इत्येतदसर्वज्ञः कथं विजानीयात् । यच्चाक्तं प्रसङ्गविपर्ययाभ्यां चेत्यादि । तदपि न साधु । साध्यसाधनयोहि व्याप्यव्यापकभावसिद्धौ हि व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयको यत्र प्रदर्श्यते तत्प्रसङ्गसाधनम् । व्यापक- १५ निवृत्तौ चावश्यम्भाविनी व्याप्यनिवृत्तिर्यत्र प्रदर्श्यते स तद्विपर्ययः । न च प्रत्यक्षशब्दवाच्यत्वसत्सम्प्रयोगजत्वविद्यमानोपलम्भनत्वधर्माद्यग्राहकत्वानां व्याप्यव्यापकभावः कचित्प्रतिपन्नः । स्वात्मन्येवासौ प्रतिपन्न इति यदि प्रतिपाद्यते । तदसङ्गतम् । असत्सम्प्रयोगजेऽपि ज्ञाने प्रत्यक्षशब्दवाच्यत्वदर्शनात् । तथा हि, स्मरणसव्यपेक्षेन्द्रियादिजन्यं २० प्रत्यभिज्ञाप्रत्यक्षं कालविप्रकृष्टस्यातीततत्कालसम्बन्धित्वस्यातीतदर्शनसम्बन्धित्वस्य च ग्राहकं पुरोव्यवस्थितार्थे भवतैवाभ्युपगम्यते । प्रातिभं च ज्ञानमध्यक्षं शब्दलिङ्गव्यापारानपेक्षं श्वो मे भ्राता आगन्तेत्याकारमनागतातीन्द्रियकालविशेषेणार्थप्रतिभासं जाग्रद्दशायां स्फुटतरमनुभूयते । यच्चाकथि कथं धर्मादिग्राहकज्ञानस्य समुत्पत्तिरिति । तत्रानन्तर- २५ कारणं समस्तावरणक्षयोऽभ्यासोऽपि च परम्परया तत्कारणमुच्यते ।
"Aho Shrut Gyanam"