________________
૩૦૪
श्रमाणनयतत्त्वालोकालङ्कारः
५
यान्तरग्राह्या रूपादिशब्दवाच्यत्वात्परिदृष्टरूपादिवदित्याभ्यामनुमानाभ्यामेतदवगम्यते । नन्वत्रापि किं यथाभूताश्चक्षुरादयो न विषयान्तरे प्रवर्त्तन्ते तथाभूता एव तथा साध्यन्ते अन्यथाभूता वा । यदि तथाभूताः । तदा सिद्धसाध्यता । अन्यथाभूताश्चेत्, तर्बुत्पत्तिमत्त्वादिवदप्रयोजको हेतुः । ननु तथाभूता एव चक्षुरादयस्तथा साध्यन्ते । न च सिद्धसाघनम् । सर्वचक्षुरादीनामीदृशत्वादिति चेत् । कुतस्तदीदृशत्वसिद्धिः । किमनुमानान्तरादुतास्मादेवानुमानात् । यद्यनुमानान्तरात्, तदा तत्रापि यदि मनागपि विशेषो नास्तीति सर्वचक्षुरादीनामीदृशत्वं प्रसाध्येतः । तदानुमानविरुद्धः पक्षैकदेशः । गृध्रवराहपिपीलिकादीनां चक्षुः श्रोत्रघ्रा१० णादिषु दूरादिस्वभावरूपशब्दगन्धादिग्रहणलक्षणातिशयस्य कार्यतः प्रतिपत्तेः । विषयान्तरग्रहणलक्षणातिशयाभावात्तदीदृशत्वप्रसाधनेऽनुमानान्तरादेव विषयान्तरे प्रवृत्त्यभावसिद्धेस्तदेवास्तु किं प्रकृतेनानुमानेन । तथाभ्युपगमे च हेत्वन्तरं नाम निग्रहस्थानं स्यात् । अस्मादेवानुमानात्तदीदृशत्वसिद्धिश्चेत् । अत्रापि यदि मनागपि विशेषो १५ नास्तीति तत्साध्यते । तदा पूर्ववदनुमानविरुद्धः पक्षैकदेशः । विषयान्तरग्रहणलक्षणातिशयाभावात्तदीदृशत्वसाधने विवादास्पदीभूतानां चक्षुरादीनां विषयान्तरे प्रवृत्त्यभावसिद्धौ सर्वचक्षुरादीनामीदृशत्वसिद्धिस्तत्सिद्धौ च विवादास्पदीभूतानां चक्षुरादीनां विषयान्तरे प्रवृत्त्यभावसिद्धिरितीतरेतराश्रयः स्यात् । एवं सर्वचक्षुरादीनामीदृशत्वा२० सिद्धेर्यथाभूतानां चक्षुरादीनां विषयान्तरे प्रवृत्त्यभावो दृष्टस्तथाभूतानामेव तथा साधने सिद्धसाधनमिति स्थितम् । द्वितीयेऽप्यनुमाने किं यथाभूतानां पुरुषाणामिन्द्रियान्तरेणाग्राह्या रूपादयो दृष्टा देशान्तर - कालान्तरभाविनामपि तथाभूतानामेव तेषामिन्द्रियान्तरेण प्राद्या रूपादयो न भवन्तीति प्रसाध्यतेऽथान्यथाभूतानामित्यादिदूषणं नातिवर्तते । २५ अभ्युपगम्य चाक्षत्वं सर्वज्ञज्ञानस्यातीन्द्रियार्थसाक्षात्कारित्वं समर्थितं न पुनः परमार्थतः । तज्ज्ञानस्य घातिकर्मचतुष्टयक्ष्योद्भूतत्वेन समर्थ -
।
[ परि. २ सु. २३
"Aho Shrut Gyanam"
·