________________
परि. २ सु. २३ ] स्याद्वादरत्नाकरसहितः
३७३ मनागपि विशेषो नास्तीति सर्वप्रत्यक्षाणामीदृशत्वं साध्येतातीन्द्रियार्थाविषयत्वेन वा विशेषो नास्तीति । प्रथमपक्षेऽनैकान्तिको हेतुः । गृध्रवराहपिपीलिकादीनां प्रत्यक्षेषु स्तोकस्तोकान्तरत्वेनास्मदादिप्रत्यक्षविलक्षणेषु सदिन्द्रियसम्प्रयोगजत्वस्य हेतोः सद्भावात् । अथातीन्द्रियार्थाविषयत्वेन विशेषाभावात् सर्वप्रत्यक्षाणामीदृशत्वं प्रसाध्यते । तर्खे- ५ तस्मादेव सर्वप्रत्यक्षाणामतीन्द्रियार्थविषयत्वाभावसिद्धेरेतदेवास्तु । प्रथमानुमानोपन्यासे च द्वितीयमनुमानमुपन्यस्यमानं हेत्वन्तरं नाम निग्रहस्थानं स्यात् । अथ यदायमेव हेतुः प्रागुपादीयते तदायमदोष इति चेत्, न । यतस्तदाप्ययमस्मान्प्रत्यसिद्धो हेतुः । विवादास्पदीभूतस्य प्रत्यक्षस्यास्माभिः सदिन्द्रियसम्प्रयोगजत्वानभ्युपगमात् । अथ विवादा- १० स्पदीभूतं प्रत्यक्षं सदिन्द्रियसम्प्रयोगजं प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवदित्यतोऽनुमानात्तस्य सदिन्द्रियसम्प्रयोगजत्वं प्रसाध्यत इत्युच्यते । तत्रापि यथाभूतस्य प्रत्यक्षशब्दवाच्यस्य सदिन्द्रियसम्प्रयोगजत्वं दृष्टं तथाभूतस्यैव सदिन्द्रियसम्प्रयोगजत्वं प्रसाध्येतान्यथाभूतस्य वा । यदि तथाभूतस्य । तदा सिद्धसाध्यता । अथान्यथाभूतस्य, तद्यु- १५ त्पत्तिमत्त्वादिवदप्रयोजको हेतुः स्यात् । तथाभूतस्यैव तत्साध्यते न च सिद्धसाधनं सर्वप्रत्यक्षणामीदृशत्वादिति चेत् । ननु कुतस्तदीदृशत्वसिद्धिः । सदिन्द्रियसम्प्रयोगजत्वादिति चेत् । नन्वयमस्मान्प्रत्यसिद्धो हेतुः । किं च सर्वप्रत्यक्षाणामीदृशत्वासिद्धौ विवादास्पदीभूतस्य प्रत्यक्षस्य सदिन्द्रियसम्प्रयोगजत्वसिद्धिस्तत्सिद्धौ च सर्वप्रत्यक्षाणामीदृशत्व- २० सिद्धिरिति परस्पराश्रयदूषणं दुष्परिहारं स्यात् । तदेवं सर्वप्रत्यक्षाणामीदृशत्वासिद्धिः । यथाभूतस्यार्थम्य ग्राहकं दृष्टं तथाभूतस्यार्थस्य ग्राहकमिति साधने च सिद्धसाधनमिति स्थितम् । यदप्यन्यदुक्तं यत्राप्यतिशयो दृष्ट इत्यादि । एतदपि कुतः प्रमाणावगतम् । अथ विवादास्पदीभूताश्चक्षुरादयो न विषयान्तरे प्रवर्तन्ते चक्षुरादिशब्दवाच्य- २५ त्वादस्मदादिचक्षुरादिवत् । तथा विवादास्पदीभूता रूपादयो नेन्द्रि
"Aho Shrut Gyanam"