________________
३७२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २३ साध्यते । त_प्रयोजको हेतुः स्यात् । यथाभूतं हि प्रत्यक्षं यथाभूतस्यार्थस्य ग्राहकमग्राहकं वा दृष्टं तथाभूतस्यैव प्रत्यक्षस्य तथाविधार्थस्य ग्राहकत्वेऽग्राहकत्वे वा स्यात्प्रत्यक्षप्रमाणत्वस्य हेतोः प्रयोजकत्वं नान्यथा
भूतस्योत्पत्तिमत्त्वादेरिव । तथा हि यादृग्भूतानां प्रासादादीनामुत्पत्ति५ मत्त्वादिबुद्धिमत्कारणपूर्वकं दृष्ट तादृम्भूतानामेव जीर्णप्रासादादीनां बुद्धि
मत्कारणपूर्वकं तत्तस्य प्रयोजकं नान्याग्भूतानां भूधरादीनाम् । यदि पुनरन्यथाभूतस्यापि प्रत्यक्षप्रमाणस्य प्रत्यक्षप्रमाणत्वसाधनं यथोक्तसाध्यस्य प्रयोजकं स्यात्तदा तादृग्भूतानां भूधरादीनामप्युत्पत्तिमत्त्वादि बुद्धिमत्कारणपूर्वकत्वस्य प्रयोजकं भवेत् । तथा च समस्तस्य जगतः कर्तसिद्धया ज्ञातृसिद्धेः सर्वज्ञाभावो न स्यात् । अथ नोत्पत्तिमत्त्वादावप्रयोजकत्वं ब्रूमो दूषणान्तरैरम्य दुष्टत्वात् । तदसत् । अस्य हेतोर्वाचस्पतिना विशिष्टमुत्पत्तिमत्त्वमसिद्धं पृथिव्यादिषु उत्पत्तिमत्त्वमात्रं त्वप्रयोजकम् । विशेषप्रयुक्तव्याप्त्युपजीवित्वेन स्वाभाविकप्रतिबन्ध
वैकल्यात् । स्वाभाविकप्रतिबन्धवतश्च हेतोरनुमानाङ्गत्वात् । इतरथो१५ -पाध्यायदर्शनादेरपि शिप्याद्यनुमापकत्वप्रसङ्गादिति वदता कणिकाया
मप्रयोजकत्वेनाभिधानात् । किं चोत्पत्तिमत्त्वादौ कुतोऽअयोजकत्वस्यावचनं किमेतद्दषणमेव हेतोर्न भवति । किं वात्रैतन्न विद्यते । यद्वा सदप्युपेक्ष्यते । नाद्यः पक्षः। तत्पुत्रत्वादेः सम्यग्वेतुत्वप्रसङ्गात् । न
द्वितीयः । तत्पुत्रत्वादिनास्य तुल्यकक्षत्वात् । अथ तत्र शाकाद्याहार२० परिणामस्योपाधेः सत्त्वाद्युक्तमप्रयोजकत्वम् । नन्वत्राप्यक्रियादर्शिनोऽपि
कृतबुद्धयुत्पादकत्वमुपाधिरस्त्येव । नापि तृतीयः । एवमप्युत्पत्तिमत्त्वादेरप्रयोजकत्वे दृष्टान्तत्वानपायात् । अथ तथाभूतमेव प्रत्यक्ष तथा प्रसाध्यते। न च सिद्धसाधनम् । सर्वप्रत्यक्षाणामीदृशत्वादित्युच्यते ।
नन्चीदृशमस्तीत्यर्वान्दर्शिना कुतोऽवसीयते । ननु देशान्तरकालान्तर२५ भाविप्रत्यक्षं समानं सदिन्द्रियसम्प्रयोगजत्वादत्रत्येदानीन्तनप्रत्यक्षव
दित्यतोऽनुमानादेतदवसीयत इति चेत् । अत्रापि स्तोकस्तोकान्तरत्वेन
"Aho Shrut Gyanam"