SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः मात्मनः प्रतिक्षिपतीति कथं सुधियामवधानाहः । प्रध्वस्ततदावरणत्वं च प्रागेव प्रसाधितत्वान्नासिद्धम् । यच्च नाप्यनिश्चितपक्षधर्मत्वे हेतु: प्रतिनियतसाध्यसिद्धिनिबन्धनमित्यभ्यधायि । तदपि न साधु । न हि सर्वज्ञोऽत्र धर्मित्वेनोपात्तो थेनास्यासिद्धेश्यं दोषः स्यात् । किं तर्हि कश्चिदात्मा तत्र चाविप्रतिपत्तिः । न चापक्षधर्मस्यापि हेतोरगमक- . ५ त्वम् । “ पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणतानुमा ॥ सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते " इति स्वयमभिधानात् । यच्चोक्तमविशेषेण सर्वज्ञः कश्चित्साध्यते विशेषेण वेत्यादि । तत्राविशेषेणेति नः पक्षः । सामान्यतः सर्वज्ञसिद्धावेव साम्प्रतं विप्रतिपत्तेः । विशेषविप्रतिपत्तौ तु दृष्टेष्टाविरुद्धवाक्यत्वादहत एवाशेषार्थज्ञत्वं सेत्स्यति । तदित्थं सिद्धः १० सकलज्ञगोचरोऽनुमानसद्भावः । आगमोऽपि सर्वज्ञसाधकः समस्त्येव । स्वर्गकेवलार्थिना तपोध्यानादि कर्त्तव्यमिति । पौरुषेयागमस्य च प्रामाण्य. मागमप्रमाणविचारावसरे समर्थयिष्यते । उपमानमपि समस्तवेदिसद्भावावेदकं विद्यत एव । हृद्भताशेषसंशयपरिच्छेदादिना समुपलब्धसर्वज्ञस्य कस्यचित्पुंसस्तदन्योपलब्धौ तत्सादृश्यप्रतीतिसिद्धेः । अगृ. १५ हतिगागवयपिण्डस्य च गव्यप्युपमान न सम्भवत्येव । न चैतावता गोस्तद्गोचरातिक्रान्तत्वम् । अनभ्युपगमादिति । अर्थापत्तिरपि समस्ति कश्चिदतीन्द्रियदर्शी चन्द्रोपरागाद्युपदेशान्यथानुपपत्तेरित्यादिका तद्राहिका सम्भवत्येव । एवं च नाप्यागमेनेत्यादि प्रतिक्षिप्तम् । तथा चैतदन्ते प्रोक्तमय सदुपलम्भकप्रमाणपञ्चकागोचरचारित्वादिति हेतोर- २० सिद्धतादौस्थ्यमुपस्थितम् । यदपि विवादविषयापन्ने देशे काले च प्रत्यक्षप्रमाणमित्याद्यनुमानमुपन्यस्तम् । तदपि यथाभूतमिन्द्रियादिजनितं प्रत्यक्षमिदानीमत्र च यथाभूतस्याविप्रकृष्टस्य ग्राहकं तद्विजातीयस्य विप्रकृष्टस्याग्राहकं वा दृष्टं देशान्तरे कालान्तरेऽपि तथाभूतमेव प्रत्यक्षं तथाभूतस्यार्थस्य ग्राहकमन्यथाभूतस्याग्राहकं चेति साध्येत अन्यथा- २५ भूतं वा । यदि तथाभूतम् । तदा सिद्धसाध्यता । अन्यथाभूतं चेत्तथा "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy