________________
३७०
प्रमाणनयतत्त्वालोकालङ्कारः
१०
त्रैलोक्यवर्त्तिनिखिलार्थमितौ समर्थ ज्ञानं ततोऽस्ति न हि केवलनामधेयम् || ३३८ |
इत्थं मिथ्यामतिभिरपरैस्तस्करैर्लुठ्यमाने त्रैलोक्यार्थ प्रकटनपटावत्र सर्वज्ञसत्त्वे ||
तेषां सम्प्रत्यमलमतयो निग्रहार्थं यतन्ते
स्याद्वादज्ञाः स्फुरितनिशितन्यायशस्त्र प्रहारैः || ३३९ ॥ तथा हि यत्तावदवादि प्रत्यक्षं नैवेत्यादि । तदसत्यम् । यतोऽर्वा - ग्दर्शिप्रत्यक्षापेक्षयेदमुच्यते योगिप्रत्यक्षापेक्षया वा । प्रथमपक्षे सिद्धसाध्यता । अर्वाग्दर्शिप्रत्यक्षस्य सर्वज्ञसत्ताग्राहकत्वेनास्माभिरप्यनङ्गीकारात् । द्वितीयपक्षे तु माता मे वन्ध्येत्यादिवत्स्ववचनविरोधः । योगिप्रत्यक्षेण योगी न गृह्यतेऽतोऽसौ नास्तीह कस्त्वदपरो ब्रूयात् । अथ स्थादेवं यदि प्रत्यक्षमभ्युपगम्येत्थमुच्येत । यावता तस्याभावादेव तेन तग्रहणं वार्यते । तदसत् । तदभावस्याद्याप्यसिद्धेः । भावोऽपि तस्य कुतः १५ सिद्ध इति चेत् । मा सिधत्तावत् । तथापि सर्वज्ञसत्ताया: प्रत्यक्षेणाग्रहणं सन्दिग्धं भविष्यति । अनुमानं तु तद्राहकं विद्यत एव । तथा हि कश्चिदात्मा समस्तवस्तूनि साक्षात्करोति तद्ग्रहणस्वाभाव्ये सति प्रध्वस्ततदावरणत्वात् । यद्यग्रहणस्वाभाव्ये सति प्रध्वस्ततदावरणं तत्तत्साक्षात्करोति । यथा व्यपगततिमिरावरणं चक्षू रूपम् । तग्रहण२० स्वाभाव्ये सति प्रध्वस्ततदावरणश्च कश्चिदात्मा । ततः समस्तवस्तूनि साक्षात्करोतीति । न तावदत्रात्मनः समस्तवस्तुग्रहणस्वाभाव्यं हेतोर्विशेषणमसिद्धम् । नोदनाबलान्निखिलार्थज्ञानोत्पत्त्यन्यथानुपपत्तेः सामस्त्येन व्याप्तिज्ञानान्यथानुपपत्तेश्च भवतां तस्य तत्सिद्धेः । सोऽयं सकलज्ञापलापि नोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्र२५ क्रुष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुमिति स्वयं ब्रुवाणो धूमाद्यनुमानेषु सामस्त्येन व्याप्तिज्ञानं च स्वीकुर्वाणः सकलार्थग्रहणस्वभावता
[ परि. २ सू. २३
पूर्वो कमीमांसक मतस्य विस्तरशः खण्डनम् ।
"Aho Shrut Gyanam"