________________
परि. २ सू. २३]
स्याद्वादरत्नाकरसहितः
३६९
निश्चयः समस्तार्थपरिज्ञाने सत्येवोपपद्यते नान्यथा । न च समस्तार्थज्ञानं सम्भवतीत्यनन्तरमेवोपपादितम् । अपि च सर्वज्ञोऽतीतकालाद्याकलितं वस्तु स्वेन रूपेण प्रतिपद्यते । किं वा वर्तमानतयैव । प्रथमपक्षे ज्ञानस्य प्रत्यक्षतानुपपत्तिः । अवर्तमानवस्तुविषयत्वात् । द्वितीयपक्षे तु तज्ज्ञानस्य भ्रान्तत्वप्रसक्तिः । अन्यथास्थितस्यार्थस्यान्यथा- ५ त्वेन ग्राहकत्वात् । अपि चेदमिदानीमिह सदित्यस्यां सकलविदि संविदि वस्तुसत्तावत्प्रागभावप्रध्वंसौ प्रतिभासेते न वा । यदि प्रतिभासेते । तदा युगपत्क्रमेण वा । युगपञ्चेत् । तर्हि तदैव वस्तुनोऽनुत्पन्नोत्पन्नप्रध्वस्तत्वेन प्रतिभासाधुगपदजातजातमृतव्यपदेशापत्तिः । यत्खलु येन स्वरूपेण प्रतिभासते तत्तेनैव व्यपदेशभाग्भवति । यथा १० नीलं नीलतया । प्रागभावसत्त्वप्रध्वंसरूपतया प्रतिभासते च सकलज्ञस्य निखिलं वस्त्विति । यथा च प्रतिनियतेन स्वरूपेण वस्तुप्रतिपत्तेरभावात्सुव्यवस्थितास्यासकलज्ञता । तन्न युगपत्प्रतीतिः । नापि क्रमेण, प्रागभावप्रध्वंसयोरनादित्वानन्तत्वाभ्या परिसमात्यभावतस्तज्ज्ञानस्याप्यपरिसमाप्तेः सर्वज्ञतायोगात् । अथ बस्तुसत्तावत्प्रागभावप्रध्वंसौ न १५ प्रतिभासेते । तदा कथमसौ त्रिभुवनभवनान्तर्वर्तिवस्तुन्तोमाविर्भावककेवलावलोककलितः स्यादिति । अन्यञ्च सर्वज्ञकालेऽप्यसर्वज्ञैः सर्वज्ञो ज्ञातुं न पार्यते । सर्वज्ञज्ञानग्राह्यसमस्तपदार्थपरिज्ञानाभावात् । तदुक्तम् "सर्वज्ञोऽयमिति ह्येतत्तत्कालेऽपि बुभुत्सुभिः॥ तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥ १॥ कल्पनीयाश्च सर्वज्ञा भवेयुर्बहवस्तव ।। २७ य एव स्यादसर्वज्ञः स सर्वज्ञं न बुद्धयते ॥२॥ सर्वज्ञो नाचबुद्धश्च येनैव स्यान्न तं प्रति ॥ तद्वाक्यानां प्रमाणत्वं मूलाज्ञानेऽन्यवाक्यवत् ॥ ३ ॥” इति ! एवं च व्यवस्थितमिदम्
वन्ध्याम्तनन्धयनिभः सकलार्थवेदी ___ सद्भावसाधनपटुप्रमितेरयुक्तेः ।। १मी. श्लो. वा. स. २ श्लो. १३४।१३५।१३६.
"Aho Shrut Gyanam"