________________
३७९
परि. २ सु. २३] स्थाद्वादरत्नाकरसहितः मिति । अत्रोच्यते। किमिदं विश्रान्तत्वं नाम तज्ज्ञानस्य विवक्षितम् । किं किञ्चित्परिच्छेद्यः परस्यापरिच्छेदः। सकलविषयदेशकालगमनासामर्थ्याद्वान्तरेऽवस्थानं वा कचिद्विषये समुत्पद्य विनाशो वा । न तावत्प्राचीनः समीचीनः पक्षः । अनभ्युपगमात् । न खलु निखिलज्ञज्ञानं क्रमेणार्थपरिच्छेदकन् । युगपदशेषार्थोद्योतकत्वात्तस्येत्यनन्तरमेव निरणायि । ५ द्वितीयपक्षोऽनभ्युपगमादेव प्रतिहतः । न हि विषयस्य देशं कालं वा गत्वा ज्ञानं तत्परिच्छेदकमिति केनाप्यभ्युपगतम् । अप्राप्यकारिणस्तस्य कचिद्गमनाभावात् । केवलं यथाऽनाद्यनन्ततया स्थितोऽर्थस्तथैव तं तत्प्रतिपद्यते । तृतीयपक्षोऽप्ययुक्तः । कचिदेव विषये तस्योत्पत्तेरनभ्युपगमात् । समकालं समस्तवस्तुविषयतयैव तस्याविर्भावस्वीकारात् । न १० चैवस्वभावस्यापि तस्य विनाशः । आत्मद्रव्यस्वरूपतया विनाशासम्भवात् । एवं च। उत्पत्तिस्थितिभङ्गभङ्गिसुभगा विश्वापि विश्वत्रयी
यज्ज्ञाने युगपत्प्रतिक्षणमियं साक्षात्समाभासते ।। गम्भीरे पयसां प्रभौ प्रविलसन्मुक्तेव सत्त्या यतः
सोऽयं सम्प्रति सिद्धिपद्धतिमगात्कश्चिन्नरग्रामणीः ॥३४२॥ एवं तावद्विश्वचेदिप्रसिद्धौ दोषापेतोऽदर्शि मानप्रबन्धः ।। हहो ब्रूताद्यापि वो यद्यतोषस्तस्यामन्ययेन मानं वदामः ।। ३४३ ॥
धर्मादयो विशदसंवेदनवेद्याः प्रमेयत्वाद्यदेवं तदेवं यथा स्तम्भस्तथा पुनरमी धर्मादयस्तस्मात्तथा । न तावदयमसिद्धो हेतुः स हि स्वरूप- २० द्वाराश्रयद्वारा वा भवेत् । न स्वरूपद्वारा प्रमेयत्वस्वरूपस्यास्य सर्ववादिनामविवादसिद्धत्वात् । नाप्याश्रयद्वारा । आश्रयभूतानां धादिपदार्थानामविवादेनावाच्यं प्रतिपन्नत्वात् । नापि विरुद्धः । साध्यवति स्तम्भादावन्वयस्योपलभ्यमानत्वात् । ननु सामान्ये साध्ये विरुद्धो माभूत् । अभिमतेन्द्रियानिन्द्रियमितक्किादावेदनवेद्यत्वे तु साध्ये विरुद्धता २५
"Aho Shrut Gyanam"