________________
प्रमाणनयतत्वालोकालङ्कारः परि. २ सू. २३ योजनशतवर्तिनीमपि द्राक् संपातिः प्रविलोकयाञ्चकार ॥ १ ॥ सत्यपि पशुसंचयेऽपरस्मिन्करिनिकरस्य तुरङ्गहेषितानि ।। सहसैव दवीयसोऽपि देशान्मूर्च्छन्ति श्रुतिकोटरेषु कामम् ॥२॥ आघ्राय च
वसुं समाश्रगन्धं तनुतस्तस्य बिलात्प्रपत्य साधोः ॥ किल कुलम५ खिलं पिपीलिकानां पातालादपि तूर्णमुच्चचाल ॥ ३ ॥" ततश्च तद्वत् कचित्पुरुषविशेषे चक्षुरादीनां विषयान्तरग्रहणलक्षणो ह्यतिशयः सम्भाव्येत । प्रज्ञामेधादिभिश्च नराणामतिशयदर्शनात् । कस्यचिदतीन्द्रियार्थद्रष्टुत्वेनाप्यतिशयः स्यादिति । अत्रोच्यते । योऽपि
गृध्रादिचक्षुरादीनामतिशयो दृष्टः सोऽपि स्वार्थापरित्यागेन दूरसूक्ष्मादि१० दृष्टौ दृष्टो न रूपादौ श्रोत्रादेः । चक्षुरादेरपि स्वार्थापरित्यागेनैवातिशयः
स्यात् । तदुक्तम् । “यत्रीप्यतिशयो दृष्टः स स्वार्थानतिलचन्नात् ।। दूरसूक्ष्मादिदृष्टी स्यान्न रूपे श्रोत्रवृत्तिता ॥१॥” इति । यश्च प्रज्ञामेधादिभिर्नराणामतिशयो दृष्टः सोऽपि नियतविषयस्तोकस्तोकान्तरत्वे
नैव न विषयान्तरे नापि प्रकर्षपर्यन्तगमनेन । उक्तं च, “येऽपि १५ सातिशया दृष्टाः प्रज्ञामेधावलैनराः ॥ स्तोकस्तोकान्तरत्वेन न
त्वतीन्द्रियदर्शनात् ॥ १॥ प्राज्ञोऽपि हि नरः सूक्ष्मानर्थान् द्रष्टुं क्षमोऽपि सन् ॥ सजातीरनतिक्रामन्नतिशेते परानरान् ॥२॥ एकशास्त्रविचारेषु दृश्यतेऽतिशयो महान् ॥ न च शास्त्रान्तरज्ञानं
तन्मात्रेणेव लभ्यते ।। ३ ॥ ज्ञात्वा व्याकरणं दूरबुद्धिः शब्दाप२० शब्दयोः।। प्रकृष्यते न नक्षत्रतिथिग्रहणनिर्णये ॥ ४ ॥ज्योतिर्विश्च
प्रकृष्टोऽपि चन्द्रार्कग्रहणादिषु ॥ न भवत्यादिशब्दानां साधुत्वं ज्ञातुमर्हति ॥५॥ तथा वेदेतिहासादिज्ञानातिशयवानपि ।। न स्वर्गदेवतापूर्वप्रत्यक्षीकरणे क्षमः ॥६॥ दशहस्तान्तरं व्योनि यो नामो
स्प्लुत्य गच्छति ॥न योजनमसौ गन्तुं शक्तोऽभ्यासशतैरपि ॥७॥" २५ इति । प्रसङ्गविमर्षयाभ्यां च सर्वज्ञज्ञानस्य निःशेषार्थविषयत्वं बाध्यते।
१ मी. श्लो. वा. सू. २ श्लो. ११४.
"Aho Shrut Gyanam"