________________
परि. २ सू. २३] स्याद्वादरत्नाकरसहितः
३६५ समुदायमध्याल्लिङ्गाख्य एकदेशोऽत्र दृष्टो नास्तीति भावः । ) "न चागमविधिः कश्चिनित्यः सर्वज्ञबोधकः । न च मन्त्रार्थवादानां तात्पर्यमवकल्पते ॥ २॥ न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते ॥ न चानुवदितुं शक्यः पूर्वमन्यैरबोधितः॥३॥ अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् ।। कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥४॥ अथ तद्वचनेनैव सर्वज्ञोऽज्ञैः प्रतीयते । प्रकल्पेत कथं सिद्धिरन्योन्याश्रययोस्तयोः ॥ ५ ॥ सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता ।। कथं तदुभयं सिद्धयेत्सिद्धमूलान्तराहते ॥ ६ ॥ असर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् ॥ सर्वज्ञमवगच्छन्तः स्ववाक्याकिं न जानते ॥ ७ ॥ सर्वज्ञसदृशं किञ्चि- १० यदि पश्येम सम्प्रति ॥ उपमानेन सर्वज्ञं जानीयाम ततो वयम् ॥ ८॥ उपदेशो हि बुद्धादेर्धर्माधर्मादिगोचरः ।। अन्यथा नोपपद्यत सर्वशं यदि नाभवत् ॥९॥ बुद्धादयो ह्यवेदज्ञास्तेषां वेदादसम्भवः । उपदेशः कृतोऽतस्तैर्व्यामोहादेव केवलात् ॥ १० ॥ ये तु मन्यादयः सिद्धाः प्राधान्येन त्रयीविदाम् ॥ त्रयीविदाश्रितः १५ ग्रन्थास्ते वेदप्रभवोक्तयः ॥११ ।।" इति न च प्रमाणान्तरं सर्वज्ञसत्तासाधकं सम्भवति । तथा चेदमनुमानं तदभावसाधनाय लब्धावसरम् । न च कश्चित्पुरुषविशेषः सर्वज्ञोऽस्ति सदुपलम्भकप्रमाणपञ्चकागोचरचारित्वात्। य इत्थं स इत्थं यथा वान्ध्येय इति । अतोऽप्यनुमानात् प्रसिद्धयति तदभावः । तथाहि विवादविषयापन्ने देशकाले च प्रत्यक्ष- २० प्रमाणमत्रत्येदानीन्तनप्रत्यक्षप्रमाणग्राह्यसजातीयार्थग्राहकं तद्विजातीयसूक्ष्माद्यर्थग्राहकं न भवति प्रत्यक्षप्रमाणत्वात् । यदेवं तदेवं यथात्रत्येदानीन्तनप्रत्यक्षप्रमाणमिति । ननु गृध्रवराहपिपीलिकादीनां चक्षुःश्रोत्रप्राणादिषु दूरस्थितरूपशब्दगन्धादिग्रहणलक्षणोऽतिशयो दृश्यते । तथा हि “द्विकरतलविनमत्कपोलपाली लङ्केशापहृतां रघोः पुरन्ध्रीम् ।। २५
१वन्ध्यासुतः।
"Aho Shrut Gyanam"