________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. २ सू. २३
(
प्रकृत्य स सर्ववित्स लोकवित् ' इत्यादिरागमस्तस्यापि कर्मार्थवादप्रधानत्वेन सकलज्ञविधायकत्वानुपपत्तेः । नापि सकलज्ञस्यानुवादकोऽसौ । पूर्वमन्यैः प्रमाणैरबोधितस्य तस्यानुवदितुमशक्यत्वात् । अनादिश्चागमस्ततः कथमादिमान् सर्वज्ञस्तदर्थः स्यात् । ५ विरोधात् । नश्वरेणागमेन सर्वज्ञप्रणीतेन पुरुषान्तरप्रणीतेन वा तत्सिद्धिः । प्रथमपक्षेऽन्योन्याश्रयः । सर्वज्ञसिद्धौ हि तत्प्रणीतत्वेनागमस्य प्रामाण्यसिद्धिस्तत्सिद्धौ चात: सर्वज्ञसिद्धिरिति । पुरुषान्तरप्रणीतस्य चागमस्याप्रमाणभूतत्वात् कथं ततस्तन्निश्वयः : । तथाभूतादप्यतः सर्वज्ञनिश्चये स्ववचनादेव तन्निश्चयः किन्न स्यादविशेषात् । न ह्यप्राप्त१० प्रमाणभावस्य पुरुषान्तरवाक्यस्य स्ववचनात्कश्चिद्विशेषः प्रतीयते । तन्नागमेनापि तत्सिद्धिः । नाप्युपमानेन तस्य सदृशपदार्थग्रहणनान्तरीयकत्वात् । गवोपमानवत् । न च सर्वज्ञसदृशः कश्चिज्जगति प्रतीयते । सर्वज्ञाप्रतीतौ तत्सदृशप्रतीतेरनुपपत्तेः । नाप्यर्थापच्या तत्प्रतीतिः । निखिलार्थज्ञसत्तामन्तरेणानुपपद्यमानस्य षट्प्रमाणप्रमितस्य कस्यचिदर्थ१५ स्यासम्भवात् । न च धर्माद्युपदेशकरणान्यथानुपपत्त्या बुद्धादीनामखिलज्ञता भविष्यतीत्यभिधानीयम् । तेषां तदुपदेशकरणस्य व्यामोहादेवोपपद्यमानत्वात् । द्विविधो छुपदेशो व्यामोहपूर्वकः सम्यग्ज्ञानपूर्वकश्च । तत्र व्यामोह पूर्वको यथा स्वप्मोपलब्धार्थोपदेशः । सम्यग्ज्ञानपूर्वको यथा मन्वादीनां सकलार्थज्ञानोदय कारण वेदमूलो धम्र्म्माद्यशे२० घार्थोपदेशः । ते हि निखिलपदार्थज्ञानोत्पत्तिहेतोर्वेदादा विर्भूतशुद्धबोधा
"
३६४
.
धर्माद्यशेषपदार्थसार्थमुपदिशन्ति । न पुनः सुगतादयः । अन्यथा मन्वाद्युपदेशवत्तदुपदेशोऽपि त्रयीविद्भिराश्रीयेत । न च तैरसावाश्रितः । ततो व्यामोहादेवासौ तद्विषयस्तैः कृतः इत्यवसीयते । यदाह भट्टः । " सर्वज्ञो दृश्यते तावनेदानीमस्मदादिभिः ॥ दृष्टो न चैकदेशोऽ२५ स्ति लिङ्ग यो वानुमापयेत् ॥ १ ॥" ( एकदेश इति गम्यगमकभाव
१ मी. श्लो, वा. सू. २ श्लो. ११७.
"Aho Shrut Gyanam"