________________
परि. २ सू. २३] स्याद्वादरत्नाकरसहितः
३६३ तथा हि । प्रत्यक्षं नैव तावत्कलयति सकलज्ञस्य सत्तां कथंचि
ल्लिङ्गं नैवास्ति यस्मादनुमितिरुदयं प्राप्य तां ज्ञापयेच्च ।। नित्यो बा नश्वरो वा गमयति न हि तामागमोऽप्यन कश्चित् __ कर्तुं ज्ञप्तिं न तस्यामुपमितिमतिरप्येति सामर्थ्यमुद्राम् ॥३३६।। ५ अर्थापत्तिर्नापि सर्वज्ञसत्तासिद्धौ सक्ता लक्ष्यते काचिदत्र ॥ तस्माद्भावग्राहकाणामयुक्तेः सर्वज्ञस्थाभाव एवास्तु युक्तः।।३३७||
तथा हि । प्रत्यक्षस्य तावत्प्रतिनियतासन्नरूपादिगोचरचारित्वेन परसन्तानवतिसंवेदनमात्रेऽपि शक्तिर्न सम्भवति । किं पुनरनन्तातीतानागतवर्तमानसूक्ष्मान्तरितादिस्वभावसकलपदार्थसाक्षात्कारिसंवेदना- १० ध्यासितपुरुषविशेषपरिच्छेदे । न खलु निखिलपदार्थग्रहणं विना प्रत्यक्षेण तत्साक्षात्कारिग्रहणमुपपद्यते । ग्राह्याग्रहणेन तनिष्ठग्राहकत्वस्याप्यग्रहणात् । लिङ्गस्यापि सर्वज्ञानुमानजनकस्य धर्मिसिद्धौ सत्यां सिद्धिः स्यात् । धर्मिणश्च सिद्धिः प्रत्यक्षेणानुमानेन वा । न प्रत्यक्षेण । अतीन्द्रियज्ञानशालिन्यतीन्द्रिये धर्मिणि प्रत्यक्षस्याप्रवृत्तेः । १५ प्रवृत्तौ वा प्रत्यक्षेणैवास्य प्रतिपन्नत्वात् किमत्रानुमानपरिश्रमेण । नाप्यनुमानेन, हेतोः पक्षधर्मातानिश्चयमन्तरेण धमिनिश्चायकस्यानुमानस्यैवाप्रवृत्तेः । न चानिश्चिते धर्मिणि हेतोः पक्षधर्मत्वनिश्चयः सम्भवति । नाप्यनिश्चितः पक्षधर्मत्वे हेतुः प्रतिनियतसाध्यसिद्धिनिबन्धनमिति । किंचाविशेषेण सर्वज्ञः कश्चित्साध्यते विशेषेण वा । २० तत्राद्यपक्षे विशेषतोऽर्हत्प्रणीतागमाश्रयणं भवतामनुपपन्नम् । द्वितीयपक्षे तु हेतोरसाधारणानकान्तिकत्वम् । जिज्ञासितसर्वज्ञादपरसर्वज्ञस्याभावेन सपक्षे वृत्त्यसम्भवात् । अन्यच, यतो हेतोः प्रतिनियतोऽर्हन् सर्वज्ञः साध्यते तत एव तथागतोऽपि तथाविधः- साध्यताम् । विशेषाभावात् । तन्नानुमानेनापि सर्वज्ञसत्तासिद्धिः । नाप्यागमेन २५ नित्येन, कार्यकार्थे तत्प्रामाण्यप्रसिद्धेः । यश्च हिरण्यगर्भ
"Aho Shrut Gyanam"