________________
तत्खण्टनम् ।
३६२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू.२३ शाक्याः पुनरेवमाहुः । “भावनाप्रकर्षपर्यन्तजं योगिज्ञानम्" इति। भावनाप्रकर्षपर्यन्तजं तथा हि भावना द्विप्रकारा। श्रूतमयी चिन्तामयी योगिज्ञानमिति बा-च। तत्र श्रतमयी श्रयमाणेभ्यः क्षणिकत्वद्धमतमुपदर्य
नैरात्म्यादिगोचरेभ्यः परार्थानुमानवाक्येभ्यः समु५ स्पद्यमानज्ञानेन श्रुतशब्दवाच्यतामास्कन्दता निवृत्ता परमप्रकर्ष
प्रतिपद्यमाना स्वार्थानुमानज्ञानलक्षणया चिन्तया निवृत्तां चिन्तामयीं भावनामारभते । सा च प्रकृप्यमाणा प्रकर्षपर्यन्तं सम्प्राप्ता योगिप्रत्यक्षं जनयतीति कथमस्यावरणापायप्रभवत्वमिति । तेऽपि न यथावस्थितदर्शिनः । क्षणिकत्वनैरात्म्यादिभावनायाः श्रुतमय्याश्चिन्तामय्याश्च मिथ्यारूपत्वात् । न च मिथ्याज्ञानस्य परमार्थविषययोगिज्ञानजनकत्वम् । अतिप्रसक्तेः । यथा च न क्षणिकत्वनैरास्यादिकं वस्तुनस्तथाग्रे वक्ष्यते । किं च निखिलप्राणिनां सुगतवत्तथाविधभावनावशात् योगिज्ञानोत्पत्तिः किन्न स्यात् । तेषां तथाभूत
भावनाया अभावाच्चेत् । ननु प्रतिपन्नतत्त्वानां प्रवृत्तमनसां सर्वेषां १५ सुगतभावनाया समाना भावनैव कुतो न स्यात् । प्रतिबन्धककर्म
सद्भावाच्चेत् । तर्हि भावनाप्रतिबन्धककर्मापाये योगिज्ञानोत्पत्तिरपि स्वीकर्तव्या ।
तस्मात् केवलसूत्रे संसूत्रितमावृत्तिक्षयापेक्षम् ।। इत्येतद्युक्तिवशाद्विशेषणं सिद्धिमधिरूढम् ॥ ३३४ ॥
१.
व
२० केवलाख्यं प्रत्यक्षं न तथा
सर्वसत्तावेदकं किमपि मान नेति वदतो मीमां- सकस्य विस्तरशो मलनिर्देशः।
अत्राह मीमांसकवावदूकः
प्रत्यक्षमस्तीह न केवलाख्यम् ॥ सर्वज्ञसद्भावसमर्थकं यन्न युज्यते किञ्चिदपि प्रमाणम् ॥३३५||
१ न्यायबिन्दुः पृ. २० पं. ९. २ ' आरभते ' इति भ. पुस्तके पाठः । ३ ' भावनाप्रवृत्त' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"