________________
परि. २ सू. २३ ]
स्याद्वादरत्नाकरसहितः
योगिमनसोऽपि सकृच्चक्षुरादिभिः सम्बन्धोऽस्तु । कुतश्चिद्धर्मविशेषादत्रापि तथोपपत्तेः । तादृशो धर्मविशेषः कथमयोगिनः सिद्ध इति चेत् । योगिनोऽपि कथं सिद्धः । सकृत्सर्वार्थज्ञानात्तत्कार्यविशेषादिति चेत् । तर्हि सकृद्रूपादिज्ञानपञ्चकात्कार्यविशेषादयोगिनां तद्धेतुधर्मविशेषोऽस्तीति किं न सिद्धयेत् । तथा सति तस्य रूपादिज्ञानपञ्चकं नेन्द्रियजं स्यात्किं तर्हि धर्मविशेषजमेवेति चेत् । सर्वार्थज्ञानमप्येवं योगिनोऽन्तःकरणजं माभूत्समाधिविशेषोत्थधर्मविशेष जत्वात्तस्य 1 मनोऽनपेक्षस्य ज्ञानस्यादर्शनाददृष्टकल्पना स्यादिति चेत् । मनोपेक्षस्य वेदनस्य सकृत्सर्वार्थसाक्षात्कारिणः कचिद्दर्शनं किमस्ति । येनादृष्टस्य कल्पना न स्यात् । सर्वार्थज्ञानं मनोपेक्षं ज्ञानत्वादस्मदादि - १० ज्ञानवदित्यतस्तत्सिद्धेर्नादृष्टकल्पनेति चेत् । तदयुक्तम् । हेतोः कालात्ययापदिष्टत्वात्पक्षस्यानुमानबाधितत्वात् । तथा हि सर्वज्ञविज्ञानं मनोऽनपेक्षं सकृत्सर्वार्थपरिच्छेदकत्वात् । यत्पुनर्मनोपेक्षं तन्न सकृत्सर्वार्थपरिच्छेदकम् । यथाऽस्मदादिज्ञानम् । न च तथेदम् । तस्मान्मनोऽनपेक्षमिति । नन्वेवं शष्कुलीभक्षणादौ रूपादिज्ञानपञ्चकं मनोनपेक्षं १५ सकृद्रूपादिपञ्चकपरिच्छेदकत्वात् । यन्नैवं न तदेवम् । यथा क्रमशो रूपादिज्ञानम् । न च तथेदम् । अतो मनोनपेक्षमित्यप्यनिष्टं सिद्धयेदिति मामंस्थाः । साधनस्यासिद्धत्वात् । जैनस्यापि हि नैकान्तेन शष्कुलीमक्षणादौ रूपादिज्ञानपञ्चकस्य सकृदूपादिपञ्चकपरिच्छेदकत्वंसिद्धम् | उपयुक्तस्य प्रमातुरनेकज्ञानस्यैकत्रात्मनि क्रमभावित्वेनोपगमात् । अनुपयुक्तस्य शक्तितो यौगपद्यप्रसिद्धेः । प्रतीतिविरुद्धं चास्य मनोऽनपेक्षत्वसाधनम् । तदन्वयव्यतिरेकानुविधायितया तदपेक्षत्वसिद्धेः अन्यथा कस्यचिदपेक्षा न स्यात् । ततः कस्यचित्सूक्ष्माद्यर्थसाक्षात्करणमिच्छता मनोऽनपेक्षमेव तदेषितव्यमिति ॥
" Aho Shrut Gyanam".
३६१
२०