SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २३ दिमत्यव्यवहितानेकावयवप्रचयात्मकेऽर्थे प्रवृत्तिप्रतीतेस्तदुत्थज्ञानस्यातीन्द्रियार्थेषु प्रतिबन्धसम्भवात् । ननु योगजधर्मानुगृहीतानामिन्द्रियाणां गगनाद्यशेषातीन्द्रियार्थसा क्षात्कारिज्ञानजनकत्वसम्भवात्कथं तत्राशेषज्ञानयोगजधर्मानुगृहीतानामि५ न्द्रियाणां तदनुगृहीतमन-स्येन्द्रियजत्वेऽपि प्रतिबन्धसम्भवः । एतदपि सश्चाशेषार्थविषयकज्ञानज-नोपपद्यते । यतो योगजधर्मः स्वविषये प्रवर्तनकत्वामिति मतस्य नमा मानस्येन्द्रियम्यातिशयाधायकत्वेन वा सहका रिमात्रत्वेन वानुग्राहकः स्यात् । तत्र प्रथमपक्षो न युक्तः । व्योमादौ स्वयमिन्द्रियस्य प्रवर्त्तमानत्वाभावात् । प्रवर्त्तने १० वा तदनुग्रहदैयर्थ्यम् । योगजधर्मानुग्रहादिन्द्रियम्य व्योमादिषु प्रवृ त्तिसाधने च परस्पराश्रयः । सिद्धे हि योगजधर्मानुग्रहे तस्य तत्र प्रवृत्तिसिद्धिस्तस्यां च योगजधर्मानुग्रहसिद्धिरिति । द्वितीयपक्षोऽप्यसम्भाव्यः । सहकारिमात्रत्वेऽप्यम्य स्वविषयातिक्रमेणेन्द्रियानुग्रहायोगात् । अन्यथा एकस्यैवेन्द्रियस्याशेषरसादिविषयेषु प्रवृत्तौ योगजधर्मानुग्रहप्रसङ्गः स्यात् । अथैकमेवान्तःकरणं योगजधर्मानुगृहीतं युगपत्सूक्ष्माद्यशेषार्थविषयज्ञानजनकमिप्यते । तन्नोपपन्नम् । अणुपरिमाणस्य मनसः समस्ताथैः समं सकृत्सम्बन्धाभावस्तज्ज्ञानजनकत्वासम्भवात् । अन्यथा दीर्घशप्कुलीभक्षणादौ सकृचक्षुरादिभिर्मनसः सम्बन्धप्रसक्तेः रूपादिज्ञानपञ्चकस्य सकृदुत्पत्तिप्रसङ्गात् “ युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्” इति सूत्रं विरुद्धचेत । क्रमशोऽन्यत्र तद्दर्शनादत्रापि क्रमकल्पनायां योगिनः सर्वार्थेषु सन्बन्धस्य क्रमकल्पनास्तु । तथा च कथमस्य सकलज्ञता । पुरुषायुषसहस्रेणापि सकलपदार्थानामानन्त्येन क्रमेण ज्ञातुमशक्तेः । अथ सर्वार्थानां साक्षात्करणसमर्थस्य योगिज्ञान स्योभयप्रसिद्धस्यान्यथानुपपत्तेस्तैयोगिमनसः सकृत्सम्बन्धसिद्धिरिति २५ चेत् । रूपादिज्ञानपञ्चकस्य कचिद्योगपद्येनानुभूयमानस्यान्यथानुपपत्तेर १ गौ. सू. ११११४. "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy