________________
परि. २ सु. २३]
स्याद्वादरत्नाकरसहितः
तत्फलानुभवनप्रसक्तेः । अथवा आवरणहानिः कचित्पुरुषविशेषे परमप्रकर्ष प्राप्ता प्रकृष्यमाणत्वात्परिमाणवत् । न च प्रकृष्यमाणत्वमसिद्धम् । तथा हि प्रकृष्यमाणावरणहानिरावरणहानित्वान्माणिक्याद्याचरणहानिवत् । आवरणहानिपरमप्रकर्षे च सिद्धे ज्ञानस्य परमप्रकर्षः सिद्धः । यत्खलु प्रकाशात्मकं तत्स्वावरणहानिप्रकर्षे प्रकृष्यमाणं दृष्टम् । यथा प्रदीपादि । प्रकाशात्मकं च ज्ञानमिति । तदेवमावरणप्रसिद्धिवत्तदभावोऽप्यनवयवेन प्रमाणतः सिद्धः । ततश्च सकलावरणक्षयसमुत्थमेव समस्तवस्तुविषयं ज्ञानं प्रतिज्ञातव्यम् । लेशतोऽप्यावरणसद्भावे तस्याशेषार्थगोचरत्वासम्भवात् । यत्रैवावरणसद्भावस्तत्रैवास्य प्रतिबन्धसम्भवात् । ननु पूर्वोपात्तसमस्तावरण विलयसम्भवेऽपि तद- १० वस्थायामेव नवनवावरणोत्पादसम्भवात्कथं केवलज्ञानोत्पत्त्यवकाश इति चेत् । न । भाविनस्तस्य संवरात् । " आश्रवेनिरोधस्संवर" इतिवचनात् । आश्रवो हि मिथ्यादर्शनाविरतिप्रमादकषाययोगविकल्पात्पञ्चप्रकारस्तस्मिन्सति कर्मणामाश्रवणात् । तस्य च निरोधः संवर इत्यभिधीयते । स च पुंसि गुप्तिसमितिधम्र्मानुप्रेक्षापरीषद जयचारित्रैर्वि- १५ धीयते इत्याद्यागमे विस्तरतः प्ररूपितस्तत एवावगन्तव्यः । इति सिद्धं समस्तावरणक्षयात् केवलज्ञानम् ।
आगमद्वारेणाशेषार्थगोचरं ज्ञानमिति मतस्य खण्डनम् ।
२०
आगमद्वारेणाशेषार्थगोचरं ज्ञानमित्यपि न प्रामाणिकमनोऽनुकूलम् । स्पष्टज्ञानस्य प्राकरणिकत्वात् । न चागमज्ञानं स्पष्टम् । अस्पष्टतया ततः पदार्थानां प्रतीतेः । न चागमस्य समस्तार्थविषयत्वमपि सम्भवति । अनभिलाप्येष्वर्थपर्यायेषु तस्याप्रवृत्तेः । " मतिश्रुतयोर्निबन्धः सर्वद्रव्येष्वंसर्व पर्यायेषु" इति तत्त्वार्थे वाचकवचनात् । नापि करणद्वारेण समस्तवस्तुविषयज्ञानसम्भवः, करणानां हि रूपा
१ तत्त्वार्थसू. ९ - १. २ समवा ५ समवाये, स्था. सू. १ स्था. सू. १३-१४ इत्यादिषु । ३ तत्त्वार्थसु. १२७.
३५९
"Aho Shrut Gyanam"