________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. २ सू. २३
विधेन विधीयमाना । इयमेव च प्रकृतार्थोपयोगिनी । ननु सम्यग्दर्शनादेरावरण निर्जरा हेतुत्वसिद्धावप्यंशत एव तन्निर्जरा भविष्यति न पुनः सामस्त्येनेति चेत् । तदसम्यक् । तद्विरोधिसम्यग्दर्शनादिपरमप्रकर्षे सति कचिदात्मनि तस्यात्यन्तं निर्ज्जरासिद्धेः । यत्र यद्विरोधिपरमप्रकर्षसद्भावस्तत्र तदत्यन्तनिवृत्तिमत् । यथा चक्षुषि तिमिरादि । आवरणविरोधिसम्यग्दर्शनादिपरमप्रकर्षसद्भावश्च कचिदात्मनि । नेदमुदाहरणं साध्यसाधनधर्मविकलम् । कस्यचिच्चक्षुषि तिमिरादेरत्यन्तनिवृत्तिमत्त्वप्रसिद्धेः तद्विरोधिविशिष्टाञ्जनादिपरमप्रकर्षसद्भावसिद्धेश्व निर्विवादत्वात् । कथं पुनरावरण विरोधिसम्यग्दर्शनादि निश्चीयत इति १० चेत् । तत्प्रकर्षे तदपकर्षदर्शनात् । यत्खलु प्रकृप्यमाणं यदपकर्षति तत्तद्विरोधि । यथोष्णस्पर्शः । शीतस्पर्शस्य आवरणमपकर्षति च प्रकृष्यमाणं तत् । तथा यत्प्रकृष्यमाणं तत् क्वचित्परमप्रकर्षसद्भावभाक् । यथा नमसि परिमाणम् । प्रकृष्यमाणं च सम्यग्दर्शनादि । न च दुःखेन व्यभिचारः । सप्तमनरकभूमौ नारकाणां तत्परमप्रकर्षसिद्धेः । १५ सर्वार्थसिद्धौ सुराणां सांसारिक सुखपरमप्रकर्षवत् । नापि संसारेण मिथ्यादर्शनादिना वा । तयोरप्यभव्येषु परमप्रकर्षसद्भावसिद्धेः । ज्ञानहान्याऽनेकान्त इति चेत्, न । तस्या अप्युपलश कलादौ परमप्रकर्षसद्भावसिद्धेः । इत्थं वा साकल्येनावरणप्रक्षये प्रयोगः । यद्यतो देशतः श्रीयमाणं समुपलभ्यते तत्ततः परमप्रकर्षावस्थाजायमा नसर्वप्रक्षयम् । २० यथा चिकित्सा समीरणादिभ्यो रोगजलधरादि । समुपलभ्यते च देशतः क्षीयमाणमावरणं सम्यग्दर्शनादिभ्य इति । यथा वा क्वचिदात्मनि साकल्येनावरणं विनश्यति विपाकान्तत्वाद्यत्तु न तथा न तद्विपाकान्तं यथात्मद्रव्यं विपाकान्तं चावरणं ततस्तथाविधम् । न च विपाकान्तत्वमावरणस्यासिद्धम् । तस्येतरकर्मवत्तत्सिद्धेः । न चेतरकर्मणां विपाकान्तत्वमसिद्धम् । नित्यत्वानुषङ्गात् । न च नित्यानि कर्माणि । नित्यं १ अनुत्तरोपपातिकजन्मनि I २ तथाविधानादिगरिणामिकाभावात् ( कदाचनापि ) सिद्धिगमनायोग्यः ।
२५
३५८
५.
"Aho Shrut Gyanam"