SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. २३] स्याद्वादरत्नाकरसहितः स्वभावस्यात्मवेश्मादौ मोहवत् । यच्च शरीराद्यतिरिक्तं तत्कम्मैव । तथा यदप्रवृत्तिमत्स्वविषये तत्सावरणम् । यथा तैमिरिकस्य लोचनविज्ञानमेकचन्द्रमसि । अप्रवृत्तिमच्च स्वविषये समस्तार्थलक्षणेऽस्मदादिज्ञानमिति। ननु चास्मदादिज्ञानस्य समस्तार्थविषयत्वं कुतः सिद्धम् । आवरणापाये तत्प्रकाशकत्वाञ्चेत्, तर्हि परस्पराश्रयः । सिद्धे हि सकलविषयत्वे ५ तस्यावरणापाये तत्प्रकाशनं सिद्धयत्यतश्च सकलविषयत्वमिति । तदप्यपरीक्षितलक्षितम् । यतोऽनुमानमिच्छता भवताप्यवश्यं निःशेषवस्तुविषयं व्याप्तिज्ञानमभ्युपगतमेवेति । तथा यदस्पष्टं स्वगोचरे ज्ञानं तत्सावरणम् । यथा रजोनीहाराद्यन्तरिततरुनिकरादिज्ञानम् । अस्पष्टं च स्वगोचरे सर्वं सदनेकान्तात्मकमित्यादिज्ञानमिति । तथामिथ्यात्वपटल- १० विलुप्तविवेकशां यदेतत्सर्वस्मिन्ननेकान्तात्मके वस्तुनि विपर्ययज्ञानं तत्सावरणं मिथ्याज्ञानत्वाद्धत्तूरकाधुपयोगिनो मृत्तिकाशकले कनकज्ञानमिवेति । ततः सिद्धमावरणं कर्म ॥ . ननु प्रसिद्धस्यापि यथोक्तप्रकारस्य कर्मणः कार्यकारणप्रवाहे प्रवर्त्तमानस्यानादित्वात्तद्विनाशहेतुभूतस्य सामग्रीविशेषम्य १५ चाभावात्कथं क्षयो यत आवरणक्षयापेक्षत्वं केवलज्ञानस्य स्यादिति चेत् । तदपि नोपपद्यते । अनादेरपि तुषारगिरिगहरे शीतस्पर्शस्योष्णस्पर्शप्रकर्षे बीजाङ्कुरसन्तानस्य कार्यकारणरूपतया प्रवर्त्तमानस्य निर्दग्धबीजेऽङ्कुरे वा निर्मूलं प्रलयविलोकनात् । सम्यग्दर्शनादिरत्नत्रयलक्षणस्यावरणनि राहेतुभूतसामग्रीविशेषस्य सुप्रसिद्धत्वाच्च । निर्जरा २० च द्वधा । निरुपक्रमा सोपक्रमा च । तत्र निरुपक्रमा उपक्रमकारणमन्तरेण संसारिणां परिपाकोदयलक्षणप्राप्तस्य कर्मणः परिसादरूपा ! सोपक्रमा तु सम्ग्यदर्शनादिरत्नत्रयेश्वरैः साधुभिस्तपसा द्वादश १ प्रवाहेण ' इति प. भ. पुस्तकयोः पाठः । २ द्वादशविधस्तपः-बाह्याभ्यन्तरषद्रुयभेदात् । बाह्यतपः-अनशनमुनोदरता वृत्तेः संक्षेपणं रसत्यागः कायक्लेश: सलीनतेति । अभ्यन्तरतपः प्रायश्चित्तं विनयो वैयावृत्त्यं स्वाध्यायः ध्यानं चेति। "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy