________________
प्रमाणनयतत्वालोकालङ्कारः
[ परि. २ सू. २३
सकलं तु सकलप्रत्यक्षं । पुनः केवलज्ञानमित्युत्तरेण योगः । सामग्री सम्यग्दर्शनादिलक्षणान्तरङ्गा । बहिरङ्गा तु जिनका लिकमनुष्यभवादिलक्षणेह विवक्षिता । तस्या विशेषोऽधिकत्वं ततः समुद्भूतः सम्पन्नो योऽसौ समस्तावरणक्षयः सकलघातिकर्मविघातस्तमपेक्षते स्वोत्पत्तौ यत्तत्तथा । किं स्वरूपमित्याह । निखिलद्रव्यपर्यायाणां यः साक्षात्कारः स्पष्टतया प्रतिभासः स स्वरूपं यस्य तत्तथा । केवलज्ञानमिति । केवलं सम्पूर्णं ज्ञेयमुच्यते । तस्मिन् यज्ज्ञानं तत्केवलज्ञानम् । यद्वा केवलमेकं मत्यादिज्ञानरहितमविद्यमानस्वप्रभेदं च । ततः केवलं च तज्ज्ञानं च केवलज्ञानामिति समासः || नेन्वावृतिक्षयापेक्षमि - १० त्युक्तं यद्विशेषणं व्यर्थं तत् । आवृतेरेव स्वरूपस्याप्रसिद्धितः । तथा हि किमावरणमभिप्रेतमायुष्मताम् । किं शरीरमा होस्विदेशकालादिकम् । न तावच्छरीरम् | तत्सद्भावेऽप्यर्थोपलम्भात् । अथ देशकालादिकम् । तथा हि मेर्वादेदूरदेशता । रावणादेर्दुरकालता । परमाण्वादेः सूक्ष्मस्वभावता । मूलकीलकोदकादेश्च भूम्यादिरावरणं लोके प्रसिद्ध१५ मेवेति चेत् । तदप्यसारम् । एवं स्वरूपस्यावरणस्य क्षयानुपपत्तेः । न खलु सातिशयसमृद्धिशाखिनाषि योगिना देशादीनामभावः कर्तुं शक्यते । न चान्यत्किञ्चिदावरणं प्रतीतिपद्धतिमधिरोहति । तन्नावृतिक्षयापेक्षामित्येतज्जैन कल्पितम् !!
विशेषणं घटाकोटिसंटङ्कमति स्फुटम् ॥ ३३२ ॥ अलीककल्पना जालमलीमसधियामिदम् ॥
युक्तं भवादृशां वक्तुं न पुनः सूक्ष्मचक्षुषाम् || ३३३ ।। तथा हिन शरीरं नापि देशकालादिकमावरणम् । अपि तु तदतिरिक्तं कर्म्म । तच्चानुमानमाहात्म्यतः प्रतीतम् । तथा हि । स्वॅपरप्रमेयबोधक
३५६
२०
१
ज्ञानावरणदर्शनावरणमोहनीयान्तरायाख्याचतुष्टयं घातिकर्म | २' तत्त्वावृत्ति' इति प. भ. पुस्तकयोः पाठः । ३ ' म्भसम्भवा इति प. भ. पुस्तकयोः पाठ: । ४ अत्र किञ्चित्पतितमस्ति ।
"Aho Shrut Gyanam"
,