________________
परि. २ सू. २३] स्याद्वादरत्नाकरसहितः बहुत्वमुररीकृत्यैव व्युत्पत्तिरास्थीयते । अन्यथा तिर्यगूर्व वा विषय परिच्छिन्दानस्यावधिव्यपदेशो न स्यात् । यद्वा, अवधिर्मर्यादा ! अवधेर्मानमवधिज्ञानम् । इदमुक्तं भवति । अमूर्तद्रव्यपरिहारेण मूर्तद्रव्यविषयत्वलक्षणया मर्यादया प्रवर्त्तमानत्वादस्यावधिज्ञानत्वम् । इदं च चतसृप्वपि गतिषु जन्तूनां प्रवर्तमानानामिन्द्रियनिरपेक्षं प्रतिविशिष्ट- ५ क्षयोपशमनिमित्तं पुद्गलानामेव परिच्छेदकमुल्लसतीति ॥ २१ ॥ __ मनःपर्यायज्ञानं लक्षयन्नाहसंयमविशुद्धिनिबन्धनाद्विशिष्टावरणविच्छेदाजातं मनोद्रव्यपर्यायालम्बनं मनःपर्यायज्ञानमिति॥२२॥ ____ संयमस्य चारित्रस्य विशुद्धिर्निर्मलता निबन्धनं कारणं यस्य स १० तथा तस्मात् । विशिष्टश्चासावावरणविच्छेदश्च मनःपर्यायज्ञानावरणक्षयोपशम इत्यर्थस्तस्माज्जातम् । मनोद्रव्याणां संज्ञिजीवमनस्त्वपरिणमितमनोवर्गणाना ये पर्याया वस्तुचिन्तनानुगुणा धर्मास्ते आलम्बन परिच्छेद्यं यस्य तत्तथाविधम् । मनःशब्देन मनोद्रव्याणि गृह्यन्ते । तेषां पर्यायेषु ज्ञानं यत् तन्मनःपर्यायज्ञानमिति । इदमिहैदम्पर्यम् । १५ मनुष्यक्षेत्रवर्तिसंज्ञिजीवगृहीतमनोद्रव्यपर्यायसाक्षात्कारि यज्ज्ञानं विशिष्टचारित्रिस्वामिकं तन्मनःपर्यायज्ञानमित्युच्यते । अनेन च मनःपर्यायज्ञानेन च परमार्थतो मनोद्रव्यपर्यायान् परिच्छिनत्ति । बायांस्तु चिन्तनीयानर्थाननुमानादेवंविधमनःपर्यायान्यथानुपपत्तेरिदमनेन चिन्तितमित्येवं लक्षणादवगच्छति मनःपर्यायज्ञानीति ॥ २२ ॥
अथ सकलप्रत्यक्षप्ररूपणायाह-- ॥सकलं तु सामग्रीविशेषसमुद्भूतसमस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारस्वरूपं केवल
ज्ञानभिति ॥२३॥ १ नारकतिर्थडनुष्यदवेगातचतुष्टयम् । २ मनोरूपतया परिमय्य आलंय च निसृष्टं मनःप्रायोग्यद्रव्यम् । ३ 'मानुष इति भ. पुस्तके पाठः । ४ — मनोद्रव्यपर्यायान् ' इति नास्ति प. भ. पुस्तकयोः ।
२३
"Aho Shrut Gyanam"