SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ३५५ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. १० आत्ममात्रापेक्षं केवलजीवद्रव्यसव्यपेक्षम् । इदमत्र हृदयम् । क्षयक्षयोपशमविशिष्टमात्मद्रव्यमेवाव्यवहितं समाश्रित्य पारमार्थिकमेव तदवध्यादिप्रत्यक्षं समुन्मीलति । न पुनः सांव्यवहारिक प्रत्यक्षमिवेन्द्रियादिव्यवहितमात्मद्रव्यं समाश्रित्येति ।। १८ ॥ एतत्प्रकारप्ररूपणायाह ॥ तद्विकलं सकलं चेति ॥१९॥ तत्यारमार्थिकमेकं तावद्विकलविषयत्वाद्विकलम् । द्वितीयं तु सकलविषत्वात्सकलम् ॥ १९ ॥ विकलं भेदतो दर्शयन्नाह१० ॥तत्रविकलमवधिमनःपर्यायज्ञानतया द्वेधेति॥२०॥ __ तत्र तयोर्विकलसकलयोर्मध्ये यद्विकलं तदवधिमनःपर्यायज्ञानरूपतया द्वेधा द्विप्रकारं भवतीति ।। २० ॥ तत्रावधिज्ञानस्वरूपमाह॥ अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुण१५ प्रत्ययं रूपिद्रव्यगोचरमवधिज्ञानमिति ॥२१॥ अवधिज्ञानस्य यदावरणमदृष्टविशेषस्तस्य योऽसौ विलयविशेषो विनाशभेदः क्षयोपशमापरनामा तस्मात्समुद्भव उत्पत्तिर्यस्य तत्तथा । भवगुणप्रत्ययं भवः सुरनारकजन्मलक्षणः । गुणः सम्यग्दर्शनादिः । तौ प्रत्ययौ कारणे यस्य तत्तथा । तत्र भवप्रत्ययः सुरनारकाणाम् । २० गुणप्रत्ययं तु नरतिरश्चाम् । रूपिद्रव्यगोचरं मूर्त्तद्रव्यविषयम् । अवधि ज्ञानमिति अवशब्दोऽधःशब्दार्थः । अवधानादवाधिर्धानं परिच्छेदः । अवधिश्चासौ ज्ञानं च अवधिज्ञानमिति समासः । एतदुक्तं भवति । अधोधो विस्तृतविषयमनुत्तरोपपातिकादीनामवधिज्ञानम् । विषयस्य च १ न वियते उत्तर-प्रधानोऽस्मादित्यनुत्तरः । उपपतनं उपपातो जन्म अनुत्तरः प्रधानः संसारेऽन्यस्य तथाविधस्याभावात् उपपातोऽस्त्येषामित्यनुत्तरोपपातिकाः । "Aho Shrut Gyanam"
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy