________________
परि. २ स. १८] स्थाद्वादरत्नाकरसहितः ३५३
अन्यथा प्रमेयानवगतिप्रसङ्ग इति ॥१५॥
अन्यथेति दर्शनादीनां यथोक्तक्रमानभ्युपगमे, प्रमेयस्य परिच्छेद्यस्य वस्तुनोऽनवगतेरनवबोधस्य प्रसङ्गः । प्रतीयमानक्रमापहवे हि दर्शनादीनां प्रमेयापहव एव कृतो भवतीति भावः ॥ १५ ॥
उपवर्णितमेव क्रमं दर्शनादीनां व्यतिरेकद्वारा दर्शयन्नाह-- ५ न खल्वदृष्टमवगृह्यते नचानवगृहीतं सन्दिह्यते न चासन्दिग्धमीह्यते नचानीहितमवेयते नाप्यनवेतं
धार्यते इति ॥ १६॥ सुगमम् ।। १६॥ कचिद्दर्शनादीनामुत्पत्तिक्रमानुपलक्षणे कारणमाहकचित्रमस्यानुपलक्षणमेषामाशूत्पादादुत्पलशतपत्र
व्यतिभेदक्रमवदिति ॥ १७ ॥ अयमत्र भावः । यथोत्पलपत्रशतव्यतिभेदस्य सूच्यादिना क्रियमाणस्य क्रमः सन्नपि शीघ्रमुत्पादात् नोपलक्ष्यते तथा कचिदत्यन्ताभ्यस्ते करतलादौ विषये दर्शनादीनामपि ।
सामान्यतस्तावदवग्रहादेरिदं स्वरूपं निरदेशि किञ्चित् ॥ भेदप्रपञ्चोऽस्य तु सम्प्रधार्यः सिद्धान्तसिन्धोरभियोगधीरैः।। ३३१॥
१०
इत्थं भेदप्रभेदपरिकरितं सांव्यवहारिकं प्रत्यक्ष लक्षयित्वा सम्प्रति पारमार्थिकं प्रत्यक्षं लक्षयति--- पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षामिति ॥१८॥
परमार्थिकं मुख्यं प्रत्यक्षं वक्ष्यमाणावधिज्ञानादिकम् । पुनःशब्दः सांव्यवहारिकप्रत्यक्षभेदादम्य भेदद्योतनार्थः । उत्पत्तौ स्वजन्मनि । १ लक्षणसूत्रम् २-२१.
"Aho Shrut Gyanam"