________________
३५२
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. १३ स्वभावतयानुभूयन्ते ते परस्परं व्यतिरिक्तमूर्तयो यथा स्तम्भादयस्तथा चैते दर्शनादयो धारणापर्यन्ताश्चैतन्यविशेषा इति । तथा येऽपूर्वापूर्ववस्तुपर्यायप्रकाशकास्ते यथोक्तसाध्याः यथानुमानादयस्तथा चैते इति ।
तथा ये क्रमभाविनस्ते पूर्वोक्तसाध्याधारा यथाङ्कुरकदलकाण्डादयस्तथा ५ चैते इति ॥ १३ ॥
अथैते दर्शनादयः किमुक्तक्रमेणैव प्रादुर्भवन्त्याहोस्वित्क्रमान्तरेणापीत्यारेका निराकुर्वन्नाहक्रमोऽप्यमीषामयमेव तथैवऽसंवेदनादेवं क्रमाविर्भूत
निजकर्मक्षयोपशमजन्यत्वाचेति ॥ १४ ॥ १० क्रमोऽपि परिपाटिरपि । न केवलं स्वरूपमित्यपिशब्दार्थः ।
अमीषां दर्शनादीनाम् । अयमेव यः पूर्वमुपन्यस्तः । अत्र हेतुद्वयमाह । तथैव यथोक्तक्रमेणैव । संवेदनादनुभवात् । तथा हि यदेव मया विषयिविषयसन्निपातदशायां सन्मात्रमालोकितं तदेव वर्णसंस्थानादिसामान्या
कारेण पश्चादवगृहीतमनन्तरमनिर्धारितरूपतया संशयितं पुनः १५ प्रतिनियतविशेषाकारेणेहितं तद्नु तदेवाकातिविशेषाकारणावेतं पुन
दृढतमावस्थापन्नावायरूपतया धारितमित्यहमहमिकया सर्वैरपि दर्शनादीनां क्रमः संवेद्यमानः कथमपोतुं पार्यते । तथा एवं क्रमेण दर्शनाद्युत्पत्तिक्रमेणाविर्भूतो योऽसौ निजकर्मणो दर्शनज्ञानावरणलक्षणस्य
क्षयोपशमः समयसिद्धोऽपगमविशेषस्तेन जन्यत्वात्क्रमोऽप्यमीषामयमे२० वेति । चकारो हेतुसमुच्चये । इदमत्रैदम्पर्यम् । येन क्रमेणात्मनो दर्शनाद्या
वरणकर्मक्षयोपशमो दर्शनादीनां कारणभूतः प्रादुर्भवति तेनैव क्रमेण दर्शनादयोऽपि तस्य समुल्लसन्ति । तथा हि ये यथाक्रमाविर्भूतनिजकारणजन्यास्ते तथा क्रमोपेताः । यथा स्थासकोशकुशूलादयस्तथा
चैते दर्शनादय इति ॥ १४ ॥ २५ . दर्शनादीनां प्रदर्शितक्रमानभ्युपगमे दोषमाह
"Aho Shrut Gyanam"