________________
परि. २ सु. १३]
स्याद्वादरत्नाकरसहितः
सुव्यक्तमेव संशयादर्थान्तरत्वमहायाः । अवग्रहादिप्रत्यक्षभेदसूत्रे च संशयस्याप्रतिपादनमप्रमाणत्वात् ॥ ११ ॥
अथ दर्शनादीनां कथञ्चिदव्यतिरेकेऽपि संज्ञाभेदसमर्थनायाह
॥ कथंचिदभेदेऽपि परिणामविशेषादेषां व्यपदेशभेद इति ॥ १२ ॥ ५
कथञ्चिदेकजीवद्रव्याविष्वग्भावेनाभेदेऽप्येकत्वेऽपि परिणामविशेषाद्विवर्त्तभेदादेषां दर्शनादीनां व्यपदेशस्य संज्ञाया भेदो नानात्वं सुघटमेवेति ॥ १२ ॥
अथैतेषामेव भेदभावनायाह ----
३५१
|| असामस्त्येनाप्युत्पद्यमानत्वेनासङ्कीर्णस्वभावत - १० यानुभूयमानत्वादपूर्वा पूर्ववस्तुपर्याय प्रकाशकत्वात्कमभावित्वाच्चैते व्यतिरिच्यन्त इति ॥ १३ ॥ असामस्त्येनाप्यसम्पूर्णत्वेनाप्युत्पद्यमानत्वेन कृत्वा यदसङ्कीर्णस्वभावतयानुभूयमानत्वं दर्शनादीना तस्मादेते दर्शनादयो व्यतिरिच्यन्त इत्येको हेतुः । इदमुक्तं भवति । गभीरे दर्शनज्ञानावरणाम्भोधौ निमज्जनो- १५. नमज्जने कुर्वाणस्यात्मनस्तत्तद्द्रव्यक्षेत्रकालाद्यपेक्षविचित्रतत्तत्क्षयोपशमवशात्कदाचिद्दर्शनमात्रमेव । कदाचिदर्शनावग्रहौ । कदाचिदर्शनावग्रहसंशयाः । कदाचिद्दर्शनावग्रहसंशयेहाः । कदाचिद्दर्शनावग्रहसंश. येहावायाः । कदाचित्तु धारणापर्यन्ताः । सर्वेऽप्येते चैतन्यविशेषाः यदुन्मीलन्ति तदेतेषां सामस्त्येनासामस्त्येन चोत्पद्यमानत्वं सिद्धम् । २० असामस्त्येनोत्पद्यमानत्वाच्चासङ्कीर्णस्वभावतयाऽनुभूयमानत्वम् । ततश्च व्यतिरेकः सिद्धो भवतीति । तथाऽपूर्वी पूर्वस्यान्यान्यस्य वस्तुपर्यायस्य पदार्थधर्मस्य प्रकाशकत्वादिति द्वितीयो हेतुः । क्रमभावित्वादिति तृतीयः । चकारो हेतुसमुच्चये । प्रयोगाः पुनरत्रैवं कार्याः । येऽसङ्कीर्ण
" Aho Shrut Gyanam"