________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ स. १० हि धारणाभिधानं ज्ञानं संस्कारः प्रतीयत इति वदन् संस्कारधारणयोरैकार्थ्यमचकथत् । अनन्तवीर्योऽपि 'तथानिर्णीतस्य कालान्तरे तथैव स्मरणहेतुस्संस्कारो धारणा' इति तदेवावदत् । ततः संस्कारस्य साक्षा
स्मृतिहेतुतां समर्थयमानाभ्यामाभ्यां धारणाया एव सा समर्थितेति ५ चेत् । किमेवं वदतोरनयोर्यः स्मृतिकालानुयायी धर्मविशेषः संस्कार इति सर्ववादिनामविवादेन सिद्धः स धारणात्वेन सम्मतः । तथा चेत्, तर्हि यस्य पदार्थस्य कालान्तरे स्मृतिस्साप्रत्यक्षात्मिका धारणा तावत्कालं यावदनुवर्तत इति स्यात् । एतच्चानुपपन्नम् । एवं तर्हि यावत्पटपदार्थसंस्काररूपं प्रत्यक्षं पुरुषे भवेत्तावत्पदार्थान्तरस्य संवेदनमेव न स्यात् । क्षायोपशामिकापयागानां युगपदावविरोधस्याभ्यामपि प्रतिपन्नत्वात् । अथ तादृशि धर्मविशेषे प्रतीतामपि संस्कारसंज्ञां धार. णायां सांकेत्य तथाव्यवहरतामेतौ । नन्वेवमपि कृते का नामार्थसिद्धिरनयोः । नह्येवमपि धारणायाः साक्षात्स्मरणहेतुत्वमुक्तं भवति ।
तस्यास्तदानीमेव ध्वस्तत्वेनात्मशक्तिविशेषस्यैव साक्षात्तद्धेतुत्वात् । १५ न च स्मरण जनने नास्त्येवात्मनः शक्तिविशेष इति सङ्गतम् । एवं
हि सर्वत्र शक्तिविलोपप्राप्तेश्चिरन्तनातीतस्य पर्यायविशेषस्यैव कस्यचिस्कार्योत्पत्तौ सर्वत्र कारणत्वेन कल्पयितुं शक्तत्वात् । तस्मादात्मशक्ति. विशेष एव संस्कारापरपर्यायः स्मृतेरानन्तर्येण हेतुः, न धारणा ।
पारम्पर्येण तु तस्यास्तद्धेतुताभिधाने न किञ्चिद्दषणम् ।। १० ॥ २० नन्वनिश्चयस्वभावत्वादीहा सन्देहान्न भिद्यत इत्यारेकामपाकुर्वन्नाहसंशयपूर्वकत्वादीहायाः संशयात् भेद इति ॥११॥
संशयः पूर्वं कारणं यस्याः सा संशयपूर्विका तस्या भावः संशयपूर्वकत्वं तस्मादीहायाः सम्भावनाप्रत्ययस्वभावायाः संशयादोलायमानज्ञानस्वभावात्सकाशाद्भेदः प्रेक्षाशालिभिरवगन्तव्यः । तथा हि पुरुषमवगृह्य किमयं दाक्षिणात्य उतोदीच्य इति चलितप्रतिपत्तिरूपः संशयः। एवं संशयितस्य प्रमातुरुत्तरकालं विशेषलिप्सायां प्रतिपतनमीहेति
"Aho Shrut Gyanam"