________________
३६७
परि. २ सू. २३ स्याद्वादरत्नाकरसहितः तथाहि सर्वज्ञस्य ज्ञानं यदि प्रत्यक्षमुपगम्यते तदा तद्धर्मादिग्राहकं न स्यात् । विद्यमानोपलम्भनत्वात् । विद्यमानोपलम्भनं तत्सत्सम्प्रयोगजत्वात् । सत्सम्प्रयोगजं तत्प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवत् । अथ तद्धर्मादिग्राहकं स्वीक्रियते । न तर्हि प्रत्यक्षम् । अविद्यामानोपलम्भनत्वात् । अविद्यमानोपलम्भनं तदसत्सम्प्रयोगजत्वादसत्सम्प्रयोगजं तदप्रत्यक्षशब्दवाच्यत्वादिति । तदेवं धर्मज्ञत्वनिषेधसिद्धौ सत्यामन्याशेषार्थप्रत्यक्षत्वेऽपि न प्रेरणायाः प्रामाण्यं प्रतिहन्यते । धर्मे तम्या एव प्रामाण्यात् । तथा चाभ्यधायि, “सर्वप्रमातृसम्बन्धिप्रत्यक्षादिनिवारणात् । केवलागमगम्यत्वं लप्स्यते पुण्यपापयोः ॥१॥ धर्मज्ञत्वनिषेधस्तु केवलोऽत्रोषयुज्यते ।। सर्वमन्यद्विजानस्तु पुरुषः १० केन वार्यते ॥ २ ॥” इति । किं च कथं धर्मादिग्राहकज्ञानस्य समुत्पत्तिः ! अभ्यासादिति चेत्, अभ्यस्यमानं हि ज्ञानं प्रतिसमयं क्रमेण परमप्रकर्षपर्यन्तमाप्तं धर्मादीन्परिच्छिनत्ति । तुच्छमेतत् । सामान्यतः सदेव हि क्वचिद्वस्तुनि ज्ञानमभ्यासात्प्रकर्षमासादयप्रसिद्धम् । धमादौ च सामान्यतो ज्ञानं चक्षुरादिजनितमनुमानाविर्भूत- १५. मागमप्रभवं वाऽङ्गीक्रियते। नाद्यः पक्षः । चक्षुरादीनां प्रतिनियतरूपादिविषयत्वेन तज्जनितज्ञानस्यापि तत्रैव प्रवृत्तेः । अनुमानाविर्भूतं तदित्यपि नोपपन्नम् । धर्मादेरतीन्द्रियत्वेन तज्ज्ञापकलिङ्गस्य तेन सम्बन्धासिद्धरसिद्धसम्बन्धस्य चाज्ञापकत्वात् । आगमप्रभवं तदित्यप्ययुक्तम् । यतोऽसावागमोऽग्दिर्शिप्रणीतोऽतीन्द्रियज्ञानवत्प्रणीतो २० वा स्यात् । आद्यपक्षे, नास्य प्रामाण्यम् । अतीन्द्रियार्थानिश्चयपूर्वकत्वात् । प्रचुरतरचारुचारिसंचारसाराङ्गहाराभिरामं रम्भाप्रभूतप्रगुणकणन्मणिकिङ्किणीकाणकन्दलितमृदङ्गवेणुवीणास्वनसुभगस्वर्गिगेयगोचरमधुरता श्लायित्वदुपदेशवत् । द्वितीयपक्षे तु चक्रकम् । अतीन्द्रियार्थज्ञाने सिद्ध हि तद्वत्पुरुषप्रणीतागमसिद्धिस्तत्सिद्धौ च तज्ज्ञाना. २५
१. प्रचुरचारि' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"