________________
३४८
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू.. न्तुकारणभेदाद्धटपटलक्षणकार्यभेदस्तथा दर्शनज्ञानावरणक्षयोपशमकारणभेदात्तत्कार्यदर्शनज्ञानभेद इत्यस्ति प्रागवग्रहाद्दर्शनम् ॥ ७॥ ॥ अवगृहीतार्थविशेषाकाङ्क्षणमीहेति ॥ ८ ॥
अवगृहीतोऽवग्रहेण विषयीकृतो योऽर्थोऽवान्तरमनुष्यत्वादिजाति५ लक्षणस्तस्य विशेषः कर्णाटलाटादिभेदस्तस्य काणं भवितव्यताप्रत्ययरूपतया ग्रहणाभिमुख्यम् ईहेत्यभिधीयते ॥ ८॥
॥ ईहितविशेषनिर्णयोऽवाय इति ॥ ९॥ ईहितस्येहया विषयीकृतस्य विशेषस्य कर्णाटलाटादिभेदस्य निर्णयो यथात्म्येन निश्चयनम् । अवाय इति कीय॑ते । शास्त्रान्तरे त्वपाय १० इत्यपि संज्ञा दृश्यते । तत्रापि न कश्चिद्विशेषः । अन्यतरवचनेऽन्य
तरस्य सामर्थ्यलब्धत्वात् । यदा हि दाक्षिणात्योऽयमित्यवायमधिगमं करोति प्रमाता । तदा नायमुदीच्यादिरित्यपायो व्यवच्छेदः सामर्थ्याल्लभ्यते । यदा च नायमुदीच्यादिरित्यपायं करोति । तदा दाक्षिणा
त्योऽयमित्यवायः सामर्थ्याल्लभ्यत इति ॥ ९॥ १५ ॥ स एव दृढतमावस्थापन्नो धारणेति ॥ १०॥
स एवायमेव दृढतमावस्थापन्नः । सादरस्य प्रमातुस्तथाविधोपचयक्रमेण किञ्चित्कालमप्रच्यवमानो धारणेत्यभिधीयते । इदमस्य सूत्रचतुष्टयस्य तात्पर्यम् । इन्द्रियार्थयोर्योग्यतालक्षणसम्बन्धे सति सकल
हेयोपादेयतासाधारणगोचरं निराकारबोधस्वरूपं दर्शनमात्मनः प्रथमतः २० प्रादुर्भवति । तदनन्तरमवान्तरजातिविशेषविषयं ज्ञानमहासंज्ञमुजि
हीते मनुष्योऽयमिति यथा। तदनु तद्विशेषाकाहालक्षणमीहाज्ञानमुन्मज्जति सम्भाव्यतेऽयं कर्णाट इति यथा । ततोऽप्याकातिविशेषावधारणस्वरूपोऽवायः समुल्लसति कर्णाट एवायमिति यथा । तस्मादपि प्रागवधारितकर्णाटादिविशेषाणामुत्तरकालं धारणा समुन्मीलतीति ।
"Aho Shrut Gyanam"