________________
परि. २ स. ४] स्याद्वादरलाकरसहितः
३४७ अहेहावायधारणाभेदात् अवग्रहश्चेहा चावायश्च धारणा चावग्रहेहावायधारणा वक्ष्यमाणलक्षणास्ताभिर्मेंदो विशेषस्तस्मादिति ॥६॥ ___ अवग्रहेहादीनां स्वरूपं क्रमतः सूत्रचतुष्टयेन व्याचष्टे-- ॥विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाजातमाद्यमवान्तरसामान्याकारविशिष्टव- ५
स्तुग्रहणमवग्रह इति ॥ ७ ॥ विषयो द्रव्यपर्यायात्मकोऽर्थः। विषयी चक्षुरादिरिन्द्रियानिन्द्रियग्रामः। तयोः समीचीनो भ्रान्त्याद्यजनकत्वेनानुकूलो यो निपातो योग्यदेशावस्थानम् । तस्मादनन्तरं समुद्भूतमुत्पन्नं यत्सत्तामात्रगोचरं निश्शेषविशेषवैमुख्येन सन्मानविषयं दर्शनं निराकारबोधस्तस्माजातमाद्यं प्रथमं सत्त्व- १० सामान्यादवान्तरैः सामान्याकारैर्मनुष्यत्वादिभिर्जातिविशेषैर्विशिष्टस्य वस्तुनो यद्हणं ज्ञानं तदवग्रह इति नाम्ना गीयते। ननु दर्शनानन्तरमवग्रहो भवतीत्ययुक्तमुच्यते अवग्रहाद्विलक्षणस्य दर्शनस्याभावादिति । अत्रोच्यते । ततोऽनन्तरसमयमाविषन्मेषेषु चक्षुरवग्रहमतिज्ञानावरणवीर्यान्तरायक्षयोपशमादङ्गोपाङ्गोपष्टम्भकत्ये मनुष्योऽयमित्यादिविभावितमनुप्य- १५ त्वाद्यवान्तरजातिविशेषं ज्ञानमुत्पद्यमानमवग्रह उच्यते इति सिद्धं दर्शनावग्रहयोर्विलक्षणस्वरूपत्वम् । अथ प्रथमसमयोन्मेषसमुद्भूतबालदर्शनमपि ज्ञानमिप्यते तर्हि तन्मिथ्याज्ञानं वा स्यात् सम्यग्ज्ञानं वा । मिथ्याज्ञानत्वेऽपि संशयस्वभावं तद्भवेद्विपर्ययस्वरूपमनध्यवसायात्मकं वा । तत्र न तावत्संशयविपर्ययात्मकं मिथ्याज्ञानं बाले सम्भवति । तस्य २० सम्यग्ज्ञानपूर्वकत्वात् । सम्यग्ज्ञानं च प्राथमिकत्वात्तस्य नास्तीति । नाप्यनध्यवसायरूपम् । वस्तुमात्रप्रतिपत्तेः । नापि सम्यग्ज्ञानं बालस्य दर्शनम् । अर्थाकारालम्बनाभावात् । किं च यथा मृत्त
१ अथ ' इत्यधिक प. भ. पुस्तकयोः । २' अपि' इत्यधिक प. भ. पुस्तकयोः । ३ ' देशाद्यवस्थानम् ' इति प. भ. पुस्तकयोः पाठः ! ४ अत्र किञ्चित्पतितम्प्रतिभाति ।
"Aho Shrut Gyanam"