________________
| दशमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
॥५१॥
श्रीमहावीर
जिन
चरितम् ।
देवार्चके ततो यातेऽस्तमिते च दिवाकरे । कायोत्सर्गस्थिते नाथेऽट्टहासं व्यन्तरोऽकरोत् ।। १२२ ।। पुस्फोटेव नभोभाण्डं तुत्रोटेवोडुमंडलम् । तेनाट्टहासशब्देनातिरौद्रेण प्रेसर्पता ।। १२३ ।। ग्रामलोकोऽपि तं शब्दं श्रुत्वाऽवोचत्परस्परम् । नूनं देवार्यकः सोऽद्य व्यन्तरेण निहन्यते ।। १२४ ।। नाम्ना तत्रोत्पलः पार्श्वतीर्थसाधुवरस्तदा । परिव्राडष्टांगमहानिमित्तज्ञानपण्डितः ।। १२५ ।। लोकाद्देवार्यवृत्तान्तं श्रुत्वाऽधादधृति हृदि । अपश्चिमस्तीर्थकरो मा स्म भूदिति शंकया ।।१२६।। ।। युग्मम्।। अट्टहासस्वरेणापि न चुक्षोभ यदा प्रभुः । हस्तिरुपं तदा घोरं व्यन्तरो विचकार सः ।। १२७ ।। स्वामिना हस्तिरुपे चावज्ञाते सति निर्ममे । पिशाचरुपं सोऽप्युच्चै रोदसीमानदण्डवत् ।। १२८ ।। तेनाप्यक्षुभिते नाथे सर्परुपं भयंकरम् । विचकार स दुष्टात्मा यमपाशायुधोपमम् ।। १२९ ।। प्रभुं स सर्पो दन्धिो भोगेनावेष्टयद् दृढम् । ददंश दशनैर्बाढममोघविषनिर्झरः ।। १३० ।। चक्रे सपै मुधाभूते भूतराट् सप्त वेदनाः । शिरोनेत्रश्रवोनासादन्तपृष्ठनखे प्रभोः ।। १३१ ।। एकापि वेदना मृत्युकारणं प्राकृते नरे । अधिसेहे तु ताः स्वामी सप्तापि युगपद्भवाः ।। १३२ ।। कृत्वा कृत्वेत्युपसर्गान्निर्विण्णो व्यन्तरः स तु । नत्वा विज्ञपयामास प्रभुमेवं कृताञ्जलिः ।। १३३ ।। मया दुरात्मना नाथ ! तव शक्तिमजानता । नितान्तमपराद्धं यत्तत्क्षमस्व दयानिधे! ॥१३४ ।। १°सर्पिणा । २ महाघो । ३ सुधा ।
शूलपाणियक्षप्रसंगः ।
॥५१॥