________________
त्रिषष्टिशलाका
पुरुषचरिते
॥५२॥
तदा च सिद्धार्थसुरः स्वकार्यव्यग्रमानसः । स्वामिसान्निध्यविषयमस्मार्षीच्छक्रशासनम् ।। १३५ ।। साटोपमेत्य चेत्यूचे शूलपाणे ! सुराधम ! । अप्रार्थितप्रार्थक ! भोः ! किमेतद्भवता कृतम् ॥ १३६ ॥ तीर्थकरं भगवन्तं सिद्धार्थनृपनन्दनम् । जगत्त्रयस्यापि पूज्यं किं न जानासि दुर्मते ! ॥ १३७ ॥ यदि त्वच्चरितं शक्रः स्वामिभक्तोऽद्य वेत्स्यति । तदा तत्कुलिशधाराक्षोदपात्रीभविष्यसि ।। १३८ ।। शूलपाणिस्ततो भीत्या पश्चात्तापेन चाकुलः । पुनरक्षमयन्नाथं नान्यदौपयिकं तदा ।। १३९ ॥ तं प्रशान्तं च सिद्धार्थः सानुकंपोऽभ्यधादिदम् । अहो तत्त्वानभिज्ञेोऽसि श्रृणु तत्त्वं यथातथम् ॥ १४० ॥ वीतरागे देवबुद्धिर्गुरुबुद्धिश्च साधुषु । धर्मे जिनोदिते धर्मबुद्धिरित्यात्मसात् कुरु ।। १४१ ।। प्राणिष्वतः परं पीडां मा कार्षीरात्मनीव भोः ! । निन्देर्हिश्च सर्वाणि पूर्वदुश्चरितानि च ।। १४२ ।। अप्येकदाऽऽचरितस्य हन्त तीव्रस्य कर्मणः । कोटीकोटिगुणं दुःखविपाकं जन्तुरश्नुते ।। १४३ ।। शूलपाणिस्तदाकर्ण्याऽनेकप्राणिक्षयं कृतम् । स्मरन्मुहुर्निनिन्द स्वं पश्चात्तापाधिवासितः ।। १४४ ।। सम्यक्त्वभृद्भवोद्विग्नः सोऽर्चित्वा चरणौ प्रभोः । आगोमलक्षालनाम्भः संगीतमुपचक्रमे ।। १४५ ।। तद्गीतशब्दमाकर्ण्य ग्राम्या एवमचिन्तयन् । मन्ये व्यापाद्य देवार्यं देवः क्रीडति संप्रति ॥ १४६ ॥ नाथोऽपि चतुरो यामान् किञ्चिदूनान् कदर्थितः । श्रमान्निद्रामधिगतोऽपश्यत् स्वप्नानमून् दश ।। १४७ ।।
१ कोटि । कोटा ।
दशमं पर्व तृतीयः सर्गः
श्रीमहावीर
जिनचरितम् ।
शूलपाणियक्षप्रसंग: ।
॥५२॥