________________
त्रिषष्टिशलाकापुरुषचरिते
॥५३॥
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
वर्धिष्णुस्तालपिशाचः स्वयं व्यापादितः किल । कोकिलौ श्वेतचित्रौ च सेवमानौ स्वसन्निधौ ।। १४८ ।। दामद्वयं च गन्धाढ्यं गोवर्गः सेवनोद्यतः । पद्माचितं पद्मसरो दोभ्यां तीर्णश्च सागरः ।। १४९ ।। उद्रश्मिकं चार्कबिम्बमथाद्रिर्मानुषोत्तरः । निजान्त्रैर्वेष्टितः स्वेनारुढं मेरुशिरोऽपि च ।। १५० ।। एवं प्रेक्ष्य दश स्वप्नान् प्राबुद्ध त्रिजगद्गुरुः । उदियाय च मार्तंडो विवन्दिषुरिव प्रभुम् ।। १५१ ॥ तदा चागज्जनः सर्व इन्द्रशर्मोत्पलोऽपि च । अक्षतांगं पूजितं च प्रभुं प्रेक्ष्य मुदं ययौ ।। १५२ ।। साश्चर्याः प्रभुमभ्यर्च्य पुष्पप्रभृतिभिश्च ते । सिंहनादं विदधिरे धीरा इव जिताहवाः ।। १५३ ।। सिंहनादमुखास्ते तु परस्परमदोऽवदन् । देवार्येणाधुना दिष्ट्योपाशामि व्यन्तरश्चिरात् ।। १५४ ॥ उत्पलोऽपि परिज्ञाय भगवन्तमवन्दत । निषसाद च तत्पादपद्मान्ते शिष्यलेशवत् ।। १५५ ॥ कायोत्सर्गावसाने च प्रभुं नत्वोत्पलः पुनः । ज्ञानसामर्थ्यतो ज्ञातप्रभुस्वप्नोऽब्रवीदिदम् ।। १५६ ॥ स्वामिन्निशान्ते युष्माभिः सुस्वप्नाः प्रेक्षिता दश । तत्फलानि स्वयं वेत्सि भक्त्याख्यामि तथाप्यहम् ॥१५७ ।। हतस्तालपिशाचो यत्तन्मोहं निहनिष्यसि । यच्छ्वेतः कोकिलः शुक्लध्यानमारोक्ष्यसीश! तत् ।। १५८ ।। यच्चित्रः कोकिलस्तद् द्वादशांगी प्रथयिष्यसि । गोवर्गो यत्तु तभावी संघस्तव चतुर्विधः ।। १५९ ॥ यत्तु पद्मसरो देवनिकायः सेवकस्ततः । यत्तु सागरमुत्तीर्ण उत्तरिष्यसि तद्भवम् ॥१६० ॥ १ पारा । रतु।
शूलपाणियक्षप्रसंगः
॥५३॥