________________
त्रिषष्टिशलाकापुरुषचारते
॥५४॥
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
यच्चार्कः केवलज्ञानं तत्समुत्पत्स्यते तव । यच्चान्त्रैर्वेष्टितोऽद्रिस्तत्सप्रतापं यशस्तव ।। १६१ ।। यन्मेरुशृंगमारुढस्त्वं तत्सिंहासनस्थितः । धर्म वक्ष्यसि यद्दाम्नी तयोर्वेद्मि फलं न हि ॥ १६२ ॥ अथाचचक्षे भगवान् दामद्वयफलं त्वदः । गृहस्थानां यतीनां च वक्ष्ये धर्म द्विधापि हि ॥ १६३ ।। अथ नत्वा जगन्नाथं ययौ स्वस्थानमुत्पलः । विस्मयप्रमदोन्मुद्रमनसोऽथापरेऽप्ययुः ।। १६४ ॥ तत्रार्धमासक्षपणैश्चतुर्मासीमतीत्य ताम् । निरगादस्थिकग्रामाद्विहर्तुं प्रभुरन्यतः ।। १६५ ॥ अनुगच्छन् शूलपाणिः प्रभुं नत्वाऽभ्यधादिदम् । स्वसौख्यनिरपेक्षस्त्वमिहागा मेऽनुकम्पया ।। १६६ ।। न पापो मत्समः कोऽपि यस्त्वय्यप्यपकारकृत् । न "सार्वस्त्वत्समः कोऽपि यो मय्यप्युपकारकृत् ॥ १६७ ।। अद्य यावदार्जयिष्यं कामहं नरकावनिम् । नाबोधयिष्यस्त्वं चेन्मां विश्वोपकृतिकर्मठ ! ।। १६८ ॥ इत्युदित्वा भक्तिगर्मो भगवन्तं प्रणम्य च । शूलपाणिर्निववृते शान्तो द्विप इवामदः ॥ १६९ ।। दीक्षादिनादतीतेऽब्दे मोराकं सन्निवेशनम् । गत्वा तद्बहिरुद्याने स्वाम्यस्थात् प्रतिमाधरः ।। १७० ।। तस्मिन्नच्छन्दको नाम पाखंडी सन्निवेशने । ज्योतिष्कमंत्रतंत्रादिकरणेन स्म जीवति ।। १७१ ।। तस्यासहिष्णुर्माहात्म्यं स्वाम्यर्चा चाभिलाषुकः । सिद्धार्थव्यन्तरः कृत्वा संक्रमं स्वामिवमणि ।। १७२ ।। १ साधुस्त्व । स्वार्यस्त्व। २°गर्भ । ३ षंडी। टि.- *सर्वेभ्यो हितः ।
शूलपाणियक्षप्रसंगः ।
॥५४॥