________________
दशमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
॥५५॥
सर्गः
श्रीमहावीर
जिनचरितम् ।
यान्तमाहूय गोपालमूचे भो ! भुक्तवानसि । कंगुकूरं ससौवीरं वृषांस्त्रातुं च गच्छसि ।। १७३ ॥ आगच्छंश्चाहिमद्राक्षीः स्वप्नेऽरोदीश्च निर्भरम् । तदेतत्संवदति किं सत्यमाख्याहि गोपक! ।। १७४ ।। सत्यमेवेति तेनोक्ते सिद्धार्थस्तस्य भूरिशः । भूयस्तत्तत्समाचख्यौ प्रत्ययोत्पत्तिकारणम् ।। १७५ ।। गोपः सविस्मयो ग्रामे गत्वाऽऽख्यद्यद्बहिर्वने । देवार्योऽस्ति त्रिकालज्ञः सोऽपूरि प्रत्ययान्मम ।। १७६ ।। तच्छुत्वा कौतुकापूर्णस्तूर्णं ग्रामजनोऽखिलः । पुष्पाक्षतादिपूजाभृदाययौ स्वामिसन्निधौ ।। १७७ ॥ सिद्धार्थः स्वामिसंक्रान्तो ग्रामीणानब्रवीदिदम् । द्रष्टुं मेऽतिशयं यूयं सर्वे स्थ किमिहागताः ? ॥ १७८ ॥ ग्राम्यैरामेत्यभिहिते यत्तैर्दृष्टं कृतं श्रुतम् । उक्तं च प्राक् तदानीं च सिद्धार्थस्तदचीकथत् ।। १७९ ॥ सिद्धार्थो भावि चाचख्यौ श्रुत्वा लोकस्ततोऽकरोत् । प्रभोः पूजां वन्दनां च महामहिमपूर्वकम् ।। १८० ।। एवं च प्रत्यहं लोकेष्वापतत्सु पतत्सु च । सिद्धार्थव्यन्तरस्याभून्मनःप्रीतिर्गरीयसी ।। १८१ ।। ऊचुस्तत्रान्यदा ग्राम्याः स्वामिन्नच्छन्दकाभिधः । ग्रामे परिवसत्यस्मिन् सोऽपि वेत्ति भवानिव ॥१८२ ।। सिद्धार्थस्तानभाषिष्ट न स जानाति किञ्चन । ऋजुन् प्रतार्य भवतः करोत्युदरपूरणम् ।। १८३ ।। ते गत्वाऽच्छन्दकं स्माहुर्न त्वं जानासि किञ्चन । सर्वं जानाति देवार्यो भावि भूतं भवच्च यत् ।। १८४ ।। स्वप्रतिष्ठाभ्रंशभीरुर्बभाषेऽच्छन्दकोऽप्यदः । स वः पुरो वेत्ति परं परमार्थमजानताम् ।। १८५ ॥ १ तु । स्थः । स्व ।
SHARABHASHASASHASANS
अच्छंदकवर्णनम् ।
॥५५॥