________________
त्रिषष्टिशलाका
पुरुषचरिते
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
॥५६॥
पुरो मम यदि ज्ञाता मन्ये ज्ञाता तदा हि सः । गत्वा तस्याऽज्ञतामाविष्करोम्येषोऽद्य पश्यत ।। १८६ ॥ इत्युक्त्वाऽच्छन्दकः क्रुद्धो वृतो ग्राम्यैः सकौतुकैः । कायोत्सर्गस्थितं नाथं द्रुतं द्रुतमुपाययौ ।। १८७ ॥ करांगुलीभिः स तृणं गृहीत्वोभयपार्श्वयोः । ऊचे नाथं तृणमिदं किं मया छेत्स्यते न वा ? ॥ १८८ ॥ भावस्तस्याभवच्चायं देवार्यो यद्वदिष्यति । तत्प्रतीपं करिष्यामि स्याद्यथाऽनृतवागसौ ॥ १८९ ।। आचचक्षे च सिद्धार्थो न छेत्स्यत इदं तृणम् । अच्छन्दकोऽपि तच्छेत्तुमारेभे सज्जितांगुलिः ।। १९० ।। दध्यौ शक्रस्तदा स्वामी विहरत्यधुना कथम् । दत्तोपयोगश्चापश्यत्तदच्छन्दकचेष्टितम् ।। १९१ ।। मा भूत्स्वामिमुखोद्गीर्णा गीरसत्येति वज्रभृत् । वज्रेण चिच्छेद दशाप्यच्छन्दककरांगुलीः ।। १९२ ।। वीक्षापन्नस्तृणाच्छेदाद्धस्यमानोऽखिलैर्जनैः । अच्छन्दकोऽन्यतोऽगच्छदुन्मत्त इव मूढधीः ।। १९३ ॥ सिद्धार्थोऽथावदद् ग्राम्यास्तस्करोऽच्छन्दको ह्ययम् । ग्राम्याः प्रत्युचिरे स्वामिन् ! किं कस्यानेन चोरितम् ।। १९४ ।। सिद्धार्थोऽप्यब्रवीदत्र वीरघोषोऽस्ति कर्मकृत् । तच्छुत्वा वीरघोषोऽपि प्रणम्य स्वमदर्शयत् ।। १९५ ॥ आदिशेति च तेनोक्ते सिद्धार्थः पुनरभ्यधात् । भाजनं ते दशपलं नष्टपूर्व निकेतनात् ? ॥ १९६ ।। आमेत्युक्ते च घोषेण सिद्धार्थः स्माह तत्खलु । हृतं पाखण्डिनानेन प्रत्ययोऽत्र निरीक्ष्यताम् ।। १९७ ।। १ त्रिकालज्ञस्तदा ।
अच्छंदकवर्णनम् ।
॥५६॥