________________
त्रिषष्टिशलाकापुरुषचरिते
॥५७॥
दशमं पर्व | तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
पश्चान्निजौकसः प्राच्यां दिशि 'शिग्रमहीरुहः । हस्तमात्रमधः क्षिप्तमस्ति गत्वा गृहाण तत् ।। १९८ ।। उत्कौतुकैर्वृतो लोकैर्वीरघोषस्तदालये । भाजनं तत्तथाख्यातं गृहीत्वा पुनराययौ ।। १९९ ।। ग्राम्यानुत्तुमुलान् भूयः सिद्धार्थः प्रोचिवानिति । भूयोऽपि श्रूयतामिन्द्रशर्मेत्यत्रास्ति किं गृही ॥२०० ।। अस्तीत्यभिदधे लोक इन्द्रशर्माप्युपस्थितः । आज्ञापयायमस्मीति वदन् प्राञ्जलिरग्रतः ।।२०१ ।। सिद्धार्थोऽभिदधे भद्र नष्टः किं ते पुरा हुडुः ? । एवमेतदित्यवोचदिन्द्रशर्मा सविस्मयः ।। २०२ ॥ सिद्धार्थः स्माह हत्वा स भक्षितो भिक्षुणामुना । बदर्या दक्षिणे पार्श्वेऽवकरेऽस्थीनि तस्य तु ।। २०३ ॥ लोकाश्च कौतुकाद्गत्वा तदस्थीनि व्यलोकयन् । सन्तीत्यभिदधानास्तु भूयस्तत्र समाययुः ।। २०४ ।। सिद्धार्थः पुनरप्यूचे तृतीयमपि चेष्टितम् । अस्यास्ति तदस्तु परं कथयिष्यामि न ह्यहम् ।। २०५ ।। आख्याहि सर्वथा तन्नः प्रसीदेति पुनः पुनः । ग्राम्यास्तमब्रुवन् रम्या स्यादर्धकथिता कथा ।। २०६ ।। अथाभाषिष्ट सिद्धार्थो नाख्यास्यामि तथाप्यहम् । कौतूहलं चेत्तद्भार्यां गत्वा पृच्छत तद्गृहे ।। २०७ ॥ तद्वेश्मनि ययौ लोकः स्वभार्या तेन तद्दिने । कुट्टितामर्षवत्येवं साम्सद्दक् चिन्तयन्त्यभूत् ।। २०८ ।। सुष्ठु जातं यदेतस्य करांगुल्यो निकर्तिताः । न्यक्कृतश्चाखिलैलॊकैर्लोकः संप्रत्युपैति चेत् ।। २०९ ।। अस्य दुश्चरितं सर्वं तदा प्रकटयाम्यहम् । यथैष लभते पापो मत्कुट्टनभवं फलम् ।।२१० ॥ टी.- 'शिग्रु:-'सरगवो' इति गुर्जरभाषायाम् । अजः ।
अच्छंदकवर्णनम् ।
॥५७॥