________________
दशमं पर्व
त्रिषष्टिशलाका
तृतीयः
पुरुषचरिते
सर्गः श्रीमहावीर
॥५८॥
जिन
चरितम् ।
अथाययौ ग्रामजनोऽपृच्छत्तच्चेष्टितं च ताम् । साऽवोचत् कोऽस्य नामापि गृह्णीयात् पापकारिणः ।। २११ ।। यदसावात्मनः स्वना समं वैषयिकं सुखम् । भुंक्ते धिक्कर्मचंडालो न मामिच्छति जातुचित् ।।२१२ ।। एवं श्रुत्वा कलकलं कुर्वाणा ग्रामवासिनः । ययुर्निजनिजं गेहमच्छन्दकविगर्हिणः ॥२१३ ॥ सर्वत्र पाप पापेति भय॑मानः स भिक्षुकः । भिक्षामप्याप न क्वापि धिक प्रतिष्ठाच्युतं नरम् ।।२१४ ॥ श्रीवीरं विजने गत्वा नत्वा दीनो जगाद सः । भगवन्नन्यतो याहि पूज्यः सर्वत्र पूज्यते ।।२१५ ॥ अत्रैवार्योऽस्मि नान्यत्र नामापि ज्ञायते मम । स्वदर्यामेव शौर्यं हि गोमायोर्न पुनर्बहिः ।। २१६ ।। अजानता दुर्विनयो यो मयाऽकारि नाथ ! ते । संप्राप्तं तत्फलं संप्रत्यनुकम्पस्व मामतः ।। २१७ ।। अप्रीतिमत्परीहाराभिग्रही भगवानथ । चचालोत्तरचावालं सन्निवेशं प्रति प्रभुः ।। २१८ ।। दक्षिणश्चोत्तरश्चेति चावालौ द्वौ तदन्तरे । सुवर्णवालुका रुप्यवालुका चेति निम्नगे ।। २१९ ।। दक्षिणादुत्तरे यातश्चावालेऽथालगत्प्रभोः । कंटके देवदूष्याधं सुवर्णवालुकातटे ॥ २२० । किञ्चिद्गत्वा प्रभुर्मा भूभ्रष्टमस्थंडिले ह्यदः । इति तद्वीक्ष्य वस्त्रार्धं गन्तुं प्रववृते ततः ।। २२१ ।। पृष्ठलग्नस्त्रयोदशमास्यन्ते ब्राह्मणस्तु सः । तद्वस्त्रार्धमुपादाय वन्दित्वा च प्रभुं ययौ ॥२२२ ॥
अच्छंदकवर्णनम् ।
१मा ततः ।