________________
त्रि.विपछि चालनका पुरुषासिते
| दशमं पर्व तृतीयः सर्गः श्रीमहावीर
|| ५९ ॥
जिनचरितम् ।
तुन्नवायस्य तस्यैव हृष्टो विप्रस्तदार्पयत् । सोऽपि ते देवदूष्यार्धे अयोजयदसंधिवत् ॥ २२३ ।। दीनारलक्षं तन्मूल्यं बन्धू इव विभज्य तौ । अर्धमधु जगृहतुस्तुन्नवायो द्विजश्च सः ।। २२४ ।। इतश्च भगवान् वीरः समीरण इवाऽस्खलन् । श्वेतव्यभिमुखं गच्छन्नित्यूचे गोपदारकैः ।। २२५ ॥ देवार्यायमृजुः पन्थाः श्वेतवीमुपतिष्ठते । किं त्वन्तरेऽस्य कनकखलाख्यतापसाश्रमः ।। २२६ ।। स हि दृग्विषसर्पणाधिष्ठितो वर्ततेऽधुना । वायुमात्रैकसञ्चारोऽप्रचारः पक्षिणामपि ।। २२७ ।। विहाय तदमुं मार्ग वक्रेणाप्यमुना व्रज । सुवर्णेनापि किं तेन कर्णच्छेदो भवेद्यतः ॥ २२८ ॥ तं चाहिं प्रभुरज्ञासीद्यदसौ पूर्वजन्मनि । क्षपकः पारणका) विहर्तुं वसतेरगात् ।। २२९ ॥ गच्छता तेन मंडूकी पादपाताद्विराधिता । आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ।। २३० ।। सोऽथ प्रत्युत मंडूकीर्दर्शयन् लोकमारिताः । ऊचे क्षुल्लं मया क्षुद्र ! किमेता अपि मारिताः ? ।। २३१ ॥ तूष्णीकोऽभूत्ततः क्षुल्लोऽमस्त चैवं विशुद्धधीः । महानुभावो यदसौ सायमालोचयिष्यति ।। २३२ ।। आवश्यकेऽप्यनालोच्य यावदेष निषेदिवान् । क्षुल्लकोऽचिन्तयत्तावद्विस्मृताऽस्य विराधना ।। २३३ ।। अस्मारयच्च तां भेकीमालोचयसि किं न हि । क्षपकोऽपि क्रुधोत्थाय क्षुल्लं हन्मीति धावितः ।। २३४ ।। कोपान्धश्च ततः स्तंभे प्रतिफल्य व्यपद्यत । विराधितश्रामण्योऽसौ ज्योतिष्केषूपपद्यत ।। २३५ ॥
चण्डकौशिकवृत्तान्तः ।
॥५९॥
१०स्फल्य ।