________________
दशमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते
॥६०॥
श्रीमहावीरजिनचरितम् ।
स च्युत्वा कनकखले सहस्रार्धतपस्विनाम् । पत्युः कुलपतेः पल्याः पुत्रोऽभूत् कौशिकाह्वयः ।। २३६ ।। तत्र कौशिकगोत्रत्वादासन्नन्येऽपि कौशिकाः । अत्यन्तकोपनत्वाच्च स ख्यातश्चंडकौशिकः ।। २३७ ॥ श्राद्धदेवातिथित्वं च तस्मिन् कुलपतौ गते । असौ कुलपतिस्तत्र तापसानामजायत ।। २३८ ।। मूर्छया वनखंडस्य सोऽन्तर्धाम्यन्नहर्निशम् । अदात्कस्यापि नादातुं पुष्पं मूलं फलं दलम् ।। २३९ ।। विशीर्णमपि योऽगृह्णाद्वने तत्र फलादिकम् । उत्पाट्य परशुं यष्टि लोष्टुं वा तं जघान सः ।। २४० ।। फलाद्यलभमानास्तु सीदन्तस्ते तपस्विनः । पतिते लगुडे काका इव जग्मुर्दिशो दिशम् ।। २४१ ।। अन्येधुर्वाटिकाहेतोः कौशिके बहिरीयुषि । अभांक्षुर्मक्षु राजन्याः श्वेतव्या एत्य तद्वनम् ।। २४२ ॥ अथ व्यावर्तमानस्य गोपास्तस्य न्यवीविदन् । पश्य पश्य वनं कैश्चिद्भज्यते भज्यते तव ।।२४३ ।। जाज्वल्यमानः क्रोधेन हविषेव हुताशनः । अंकुठधारमुद्यम्य कुठारं सोऽभ्यधावत ।। २४४ ॥ राजपुत्रास्ततो नेशुः श्येनादिव शकुन्तयः । स्खलित्वा च पपातायं यमवक्त्र इवावटे ।। २४५ ।। पततः पतितस्तस्य संमुखः परशुः शितः । शिरो द्विधा कृतं तेन ही विपाकः कुकर्मणाम ।। २४६ ।। स विपद्य वनेऽत्रैव चंडोऽहिर्दृग्विषोऽभवत् । क्रोधस्तीवानुबन्धो हि सह याति भवान्तरे ।। २४७ ।। अवश्यं चैष बोधार्ह इति बुद्ध्या जगद्गुरुः । आत्मपीडामगणयन्नृजुनैव पथा ययौ ।। २४८ ।। १°धुः कटि ।
चण्डकौशिकवृत्तान्तः ।
TEO