________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥६१ ॥
अभवत्पदसञ्चारसुषमीभूतवालुकम् । उदपानावहत्कुल्यं शुष्कजर्जरपादपम् ।। २४९ ।।
जीर्णपर्णचयास्तीर्णं कीर्णं वल्मीकपर्वतैः । स्थलीभूतोटजं जीर्णारण्यं न्यविशत प्रभुः ॥ २५० ॥ ॥ युग्मम् ॥ तत्र चाथ जगन्नाथो यक्षमंडपिकाऽन्तरे । तस्थौ प्रतिमया नासाप्रान्तविश्रान्तलोचनः ।। २५१ ।। ततो दृष्टिविषः सर्पः सदर्पो भ्रमितुं बहिः । बिलान्निरसरज्जिह्वा कालरात्रिमुखादिव ।।। २५२ ।। भ्रमन् सोऽनुवनं रेणुसंक्रामद्भोगलेखया । स्वाऽऽज्ञालेखामिव लिखन्नीक्षाञ्चके जगद्गुरुम् ॥ २५३ ॥ अत्र मां किमविज्ञाय किमवज्ञाय कोऽप्यसौ । आः प्रविष्टो निराशंकं निष्कंपः शंकुवत्स्थितः ॥ २५४ ॥ तदेनं भस्मसादद्य करोमीति विचिन्तयन् । आध्मायमानः कोपेन फटाटोपं चकार सः ।। २५५ ।। ज्वालामालामुद्वमन्त्या निर्दहन्त्या लताद्रुमान् । भगवन्तं दृशाऽपश्यत् स्फारफूत्कारदारुणः ।। २५६ ॥ दृष्टिज्वालास्ततस्तस्य ज्वलन्त्यो भगवत्तनौ । विनिपेतुर्दुरालोका उल्का इव दिवो गिरौ ॥ २५७ ॥ प्रभोर्महाप्रभावस्य प्रभवन्ति स्म नैव ताः । महानपि मरुन्मेरुं किं कम्पयितुमीश्वरः ? ।। २५८ ।। दारुदाहं न दग्धोऽसावद्यापीति क्रुधा ज्वलन् । दर्शं दर्शं दिनेश द्विर्दृग्ज्वालाः सोऽमुचत्पुनः ।। २५९ ।। टि. - * 'हवाडो' इति गुर्जरभाषायाम् ।
१ त्रिर्दृ । २ हि ६० ।
दशमं पर्व तृतीयः सर्गः
श्रीमहावीर
जिनचरितम् ।
चण्ड
कौशिक
वृत्तान्तः ।
॥६१ ॥