________________
त्रिषष्टिशलाकापुरुषचरिते
| दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
॥६२॥
संपन्नासु प्रभौ वारिधाराप्रायासु तास्वपि । ददंश दन्दशूकः स निःशूकः पादपंकजे ॥ २६० ।। दष्ट्वापचक्राम स्वविषोद्रेकदुर्मदः । पत्पतन्मद्विषाक्रान्तो मृदुनीयादेष मामपि ।। २६१ ॥ दशतोऽप्यसकृत्तस्य न विषं प्राभवत्प्रभौ । गोक्षीरधाराधवलं केवलं रक्तमक्षरत् ।। २६२ ।। ततश्च पुरतः स्थित्वा किमेतदिति चिन्तयन् । वीक्षांचक्रे जगन्नाथं वीक्षापन्नः स पन्नगः ॥२६३ ।। ततो निरुप्य रुपं तदसरुपं जगद्गुरोः । कान्तसौम्यतया मंक्षु विध्याते तद्विलोचने ।। २६४ ॥ *उपसन्नं च तं ज्ञात्वा बभाषे भगवानिति । चंडकौशिक ! बुध्यस्व बुध्यस्व ननु मा मुहः ।। २६५ ।। श्रुत्वा तद्भगवद्वाक्यमूहापोहं वितन्वतः । पन्नगस्य समुत्पेदे स्मरणं पूर्वजन्मनाम् ।। २६६ ।। ततः प्रदक्षिणीकृत्य स त्रिस्त्रिभुवनेश्वरम् । निष्कषायः स्वमनसाऽनशनं प्रत्यपद्यत ।। २६७ ॥ कृतानशनकर्माणं निष्कर्माणं महोरगम् । प्रशमापन्नमज्ञासीदन्वज्ञासीच्च तं प्रभुः ।। २६८ ।। कुत्राप्यन्यत्र मा यासीद् दृष्टिर्मे विषभीषणा । इति तुण्डं बिले क्षिप्त्वा पपौ स समताऽमृतम् ।। २६९ ॥ तस्थौ तथैव तत्रैव स्वामी तदनुकंपया । परेषामुपकाराय महतां हि प्रवृत्तयः ।। २७० ।। भगवन्तं तथा दृष्ट्वा विस्मयस्मेरलोचनाः । गोपाला वत्सपालाश्च तत्रोपससपुर्दुतम् ।। २७१ ।। वृक्षान्तरे तिरोभूय यथेष्टं ग्रावलेष्टुभिः । प्रणिजघ्नुरनिघ्नास्ते पन्नगस्य महात्मनः ॥२७२ ।। टि.- *शान्तम् ।
चण्डकौशिकवृत्तान्तः ।
||६२॥