________________
त्रिषष्टिशलाकापुरुषचरिते
॥६३॥
| दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
तथाप्यविचलं ते तं वीक्ष्य विश्रम्भभाजिनः । यष्टिभिर्घट्टयामासुर्निकटीभूय तत्तनुम् ।। २७३ ॥ आख्यज्जनानां तद्गोपास्ततस्तत्रागमज्जनाः । ववन्दिरे महावीरमहंश्च तं महोरगम् ।। २७४ ।। घृतविक्रयकारिण्यो गच्छन्त्यस्तेन वर्त्मना । नागं हैयंगवीनेनाम्रक्षयन् पस्पृशुश्च तम् ।। २७५ ।। आगत्य घृतगन्धेन तीक्ष्णतुण्डाः पिपीलिकाः । चक्रिरे "तितउप्रायमहेस्तस्य कलेवरम् ।। २७६ ।। मत्कर्मणां कियदेतदित्यात्मानं विबोधयन् । वेदनामधिसेहे तां दुस्सहां सोऽहिपुंगवः ।। २७७ ।। वराक्यो मा स्म पील्यन्त स्वल्पसाराः पिपीलिकाः । इत्यचीचलदंगं न मनागपि महोरगः ।। २७८ ।। सिक्तः कृपासुधावृष्ट्या दृष्ट्या भगवतोरगः । पक्षान्ते पंचतां प्राप्य सहस्रारदिवं ययौ ।। २७९ ।। एवं कौशिकनागायोपकृत्य निरगाद्वनात् । प्राप चोत्तरचावालसन्निवेशं जगद्गुरुः ।। २८०॥ पक्षान्ते पारणार्थं च भ्रमन् गोचरचर्यया । गृहिणो नागसेनस्य सदने प्रययौ प्रभुः ।। २८१ ॥ तत्राहनि द्वादशाब्दया गृहिणस्तस्य नन्दनः । अचिन्तितस्तदाऽभ्यागाद्धर्षदोऽनभ्रवृष्टिवत् ।। २८२ ॥ उत्सवो नागसेनेन तेनाकारि स्ववेश्मनि । भोजितः स्वजनोऽशेषः स्वाम्यायातश्च वीक्षितः ।। २८३ ॥ दूरात्स्वामिनमालोक्य प्रमोदमधिकं वहन् । नागसेनोऽपि पयसा भक्तिमान् प्रत्यलाभयत् ।। २८४ ।। तत्रामरैरहो दानं सुदानमिति भाषिमिः । वसुधाराप्रभृतीनि पंच दिव्यानि चक्रिरे ।। २८५ ॥ पट.-"चाळणा' इात गुजरभाषायाम् ।।
चण्डकौशिकवृत्तान्तः ।
॥६३॥