________________
त्रिषष्टिशलाकापुरुषचरिते
॥५०॥
दशमं पर्व तृतीयः सर्गः श्रीमहावीर
जिन
| चरितम् ।
तद्वाचा व्यन्तरः किञ्चिदुपशान्तोऽब्रवीदिति । अमूनि मानुषास्थीनि पुजीकुरुत संप्रति ।। १०९ ।। तस्योपरि कुरुध्वं चायतनं तस्य चान्तरे । ममोक्षरुपानुगतां मूर्ति स्थापयतोच्चकैः ।। ११०॥ एवं कृते प्राणितं वः प्रदास्ये नान्यथा पुनः । तथैव तद्वचस्तेऽपि ग्राम्या विदधुरादृताः १११ ॥ पूजाकरं शूलपाणेरिन्द्रशर्माणमाख्यया । ग्रामः समादिशत्तस्मै कल्पितानल्पवेतनः ।। ११२ ।। अत्रास्थिसंचयोऽस्तीति ग्रामोऽसावस्थिकाह्वयः । तदाप्रभृति लोकेऽभूद्वर्धमानाभिधोऽपि सन् ।। ११३ ॥ श्रान्ताः कार्पटिका रात्रौ वसन्त्यायतनेऽत्र ये । तद्रात्रावेव तान् हन्ति शूलपाणिः कृतान्तवत् ।। ११४ ॥ स्थित्वा लोको दिनं ह्योन्द्रशर्मा च तदर्चकः । सायं स्वसदने याति तद्वस्तुं तेऽत्र नोचितम् ॥ ११५ ॥ इत्युक्त्वा ते पृथगपि स्वामिने वसतिं ददुः । प्रतीयेष न तु स्वामी यक्षौकस्तत्त्वयाचत ।। ११६ ॥ अथ ग्राम्यैरनुज्ञातो बोधार्ह व्यन्तरं विदन् । तदायतनैककोणे तस्थौ प्रतिमया प्रभुः ।। ११७ ॥ सायं कृत्वा धूपवेलामिन्द्रशर्मा तदर्चकः । निःसार्य पथिकान् सर्वान् भगवन्तमदोऽवदत् ।। ११८ ॥ अयि देवार्य ! निर्याहि त्वमप्यायतनादतः । अयं हि व्यन्तरः क्रूरो भावी ते निशि मृत्यवे ॥११९ ।। तस्थौ च स्वामी तूष्णीको व्यन्तरः सोऽप्यचिन्तयत् । अहो मुमूर्षुः कोऽप्येष ममायतनमागमत् ।। १२० ॥ ग्रामेण वार्यमाणोऽपि मुहुर्मत्पूजकेन च । दृप्तः कोऽयमिहावात्सीदर्पमस्य हरामि तत् ।। १२१ ॥ १ हि । २ °दि।
शूलपाणियक्षप्रसंगः ।
॥५०॥